पद्यभागवद्वृत्तगन्धि ॥ २३ ॥
पद्यस्य भागाः पद्यभागास्तद्वत् वृत्तगन्धि ।
यथा--- 'पातालतालुतलवासिषु दानवेषु' इति ।
अत्र हि वसन्ततिलकाख्यस्य वृत्तस्य भागः प्रत्यभिज्ञायते ।
अनाविद्धललितपदं चूर्णम् ॥ २४ ॥
अनाविद्धान्यदीर्घसमासानि ललितान्यनुद्धतानि पदानि यस्मिंस्तदनाविद्धललितपदं चूर्णमिति ।
यथा- 'अभ्यासो हि कर्मणां कौशलमावहति । नहि सकृन्निपातमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधाति ।' इति ।
विपरीतमुत्कलिकाप्रायम् ॥ २५ ॥
विपरीतमाविद्धोद्धतपदमुत्कलिकाप्रायम् ।
यथा- 'कुलिशशिखरखरनखरप्रचयप्रचण्डचपेटापाटितमत्तमातङ्गकुम्भस्थलगलन्मदच्छटाच्छुरितचारुकेसरभारभासुरमुखे केसरिणि' इति ।
पद्यमनेकभेदम् ॥ २६ ॥
'उक्तं वसन्ततिलकं तभजा जगौ गः' इति तल्लक्षणम् ।
अनाविद्धेति । वृत्तिः स्पष्टार्था । उदाहरति-----अभ्यास इति । नहि सकृदिति । नहीति निपातसमुदायः प्रतिषेधवाचकः सकृदित्यनेन संबध्यते, तथा चासकृदित्यर्थः संपद्यते । मात्रशब्देन सहकारिमात्रादिर्व्यावर्त्यते । तेनोदबिन्दुरप्यसकृन्निपातमात्रेण ग्रावणि पाषाणे निम्नतामादधातीत्यन्वयमुखेन पूर्ववाक्यार्थः समर्थितो भवति ।
विपरीतमिति । सुगमम् । चपेटा करतलाघातः । 'चपेटः प्रतते पाणौ तदाघाते स्त्रियामयम्' इत्यमरशेषः ॥