उदयति हि स तादृक्क्वापि वैदर्भरीतौ
सहृदयहृदयानां रञ्जकः कोऽपि पाकः ॥'
सापि वैदर्भी तात्स्थ्यात् ॥ २२ ॥
सापीयमर्थगुणसंपद्वैदर्भीत्युच्यते । तात्स्थ्यादित्युपचारतो व्यवहारं दर्शयति ।
इति काव्यालंकारसूत्रवृत्तौ शारीरे
प्रथमेऽधिकरणे द्वितीयोऽध्यायः ।
वाक्य इत्यर्थः । वाचकश्री. शब्दसंपत् । यं वैदर्भीपाकम् । अधिशय्य, स्यन्दते रसवर्षिणी भवति । यत्र यस्मिन्वैदर्भीपाके । वितथं नीरस वस्तु । अवितथत्वं सरसत्वम् । प्रयाति । तदुक्त्तं लोचने, 'जगद्भावप्रख्यं निजरसभरात्पूरयति च' इति । अन्यच्च, 'भावानचेतनानपि चेतनवच्चेतनानचेतनवत् । व्यवहारयति यथेच्छं सुकविः काव्ये स्वतन्त्रतया ॥' इति । स्पष्टमवशिष्टम् ।
वैदर्भीनिष्ठत्वादर्थगुणसंपदि वैदर्भीति व्यवहारोऽप्युपचर्यत इत्याह सापीति । तस्मिन् तिष्ठतीति तत्स्थः, तस्य भावः तात्स्थ्य तस्मादिति. उपचारे संबन्ध उक्त्तः ।
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति-
व्याख्यायां काव्यालकारकामधेनौ शारीरे
प्रथमेऽधिकरणे द्वितीयोऽध्यायः ॥
सामान्यतो व्युत्पत्तिरियम् ।
4