संप्रत्युपमाप्रपञ्चो विचार्यते । कः पुनरसावित्याह---
प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः॥ १ ॥
प्रतिवस्तु प्रभृतिर्यस्य स प्रतिवस्तुप्रभृतिः । उपमायाः प्रपञ्चः उपमाप्रपञ्च इति।
सुधारसाभे सुषमाप्रवाहे मुक्तायमानैर्मणिभिर्विचित्रैः ।
ज्योत्स्नेव ताराभिरलंकृता मे सा शारदा चेतसि संनिधत्ताम् ॥
मूलं वस्तु निगुम्भनोदितकनद्वाक्यानि शाखाः परं
दीव्यद्वाचकसंहतिर्दलगणो राजद्गुणाः पल्लवाः ।
अर्थाः पुष्पकदम्बकं सुरुचिरा भूषाः फलं रीतयो
जीवो यस्य विभाति सोऽयमतुलो वाग्दिव्यशाखी चिरम् ॥
सर्वालंकारप्रकृतिभूतामुपमामुपपाद्य तत्प्रपञ्चं प्रपञ्चयितुम् आरभते - संप्रतीति । अनुयोगपूर्वकमनन्तरसूत्रमवतारयति-कः पुनरिति । व्याचष्टे- प्रतिवस्त्विति । प्रभृतिशब्द आद्यर्थः । प्रतिवस्तुप्रमुखाणाम् अलंकाराणामुपमागर्भत्वादुपमाप्रपञ्च इति व्यपदेशः कृतः । " प्रतिवस्तुप्रभृतय उद्दिश्यन्ते यथाक्रमम् । प्रतिवस्तु समासोक्तिरथाप्रस्तुतशंसनम् ।। अपहृती रूपकं च श्लेषो वक्रोक्त्यलंकृतिः । उत्प्रेक्षातिशयोक्तिश्च संदेहः सविरोधकः ॥ विभावनानन्वयः स्यादुपमेयोपमा ततः । परिवृत्तिः क्रमः पश्चाद्दीपकं च निदर्शना ॥ अर्थान्तरस्य न्यसनं त्यतिरेकस्ततः परम् । विशेषोक्तिरथ व्याजस्तुतिर्व्याजोक्त्यलंकृतिः ।। स्यात्तुल्ययोगिताक्षेपः सहोक्तिश्च समासतः । अथ संसृष्टिभेदौ द्वावुपमारूपकं तथा ॥ उत्प्रेक्षावयवश्चेति विज्ञेयोऽलंकृतिक्रमः ॥"
ननु प्रतिवस्तुनो वाक्यार्थरूपत्वेन वाक्यार्थोपमानिरूपणेनैव गतार्थत्वमिति न लक्षणान्तरापेक्षेति शङ्कां शकलयन् लक्षणभेदं दर्शयितुमाह- वाक्या-