अस्य वाक्यार्थस्य व्याससमासौ ।
व्यासो यथा-
'अयं नानाकारो भवति सुखदुःखव्यतिकरः
सुखं वा दुःखं वा न भवति भवत्येव च ततः।
पुनस्तस्मादूर्ध्वं भवति सुखदुःखं किमपि त-
त्पुनस्तस्मादूर्ध्वं भवति न च दुःखं न च सुखम् ॥'
समासो यथा-
'ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः स्वमुद्ययुः ॥"
साभिप्रायत्वं यथा-
'सोऽयं संप्रति चन्द्रगुप्ततनयश्चन्द्रप्रकाशो युवा
जातो भूपतिराश्रयः कृतधियां दिष्ट्या कृतार्थश्रमः ।'
आश्रयः कृतधियामित्यस्य वसुबन्धुसाचिव्योपक्षेपपरत्वात्साभिप्रायत्वम् । एतेन ‘रतिविगलितबन्धे केशपाशे सुकेश्याः' इत्यत्र सुकेश्या इत्यस्य च साभिप्रायत्वं व्याख्यातम् ।
प्रतिपद्यते । इह तु वाक्यार्थस्यैव व्यासो विस्तरः, समासश्च संक्षेपो वाक्येनैवेति भेदादित्याह- अस्य वाक्यार्थस्येति । व्यासमुदाहरति- अयं नानाकार इति। अयम् अविसंवादितया अनुभूयमानः सुखदुःखव्यतिकरः, नानाकारो विचित्ररूपो भवतीति वाक्यार्थः । अस्यैव विस्तरः ‘सुखं वा दुःखं वा' इत्यादिना कृत इति व्यासः। समासं समुन्मेषयति-- ते हिमालयमिति । अत्र संक्षेपः स्फुटः ।
पञ्चमीं प्रौढिं प्रपञ्चयति- साभिप्रायत्वमिति । पदान्तरप्रयोगमन्तरेण तदर्थप्रत्यायनप्रागल्भ्यं साभिप्रायत्वम् । लक्ष्यलक्षणयोरानुरूप्यं निरूपयति-आश्रयः कृतधियामिति । एतेनेति । न्यायेनेति शेषः। सुकेश्या इत्यत्र कवेरभिप्रेतं केशसौष्ठवं कलापिकलापकदर्थनसामर्थ्यं केशहस्तस्य समर्पयतीति