पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७ अध्यायः ] काव्यालंकारः । ९५ किमिति । इति प्रश्नादुत्तरम् । अथास्य परिसंख्यायाश्चायं विशेषो यत्तत्र नियमप्रती तिरेतदेवात्रैव वेति । इह तु प्रश्नादुत्तरमात्रम्, न तु नियमप्रतीतिः । अथ सारम् यत्र यथासमुदायाद्यथैकदेशं क्रमेण गुणवदिति । निर्धार्यते परावधि निरतिशयं तद्भवेत्सारम् ॥ ९६ ॥ यत्रेति । यो यः समुदायो यथासमुदायम्, यो य एकदेशो यथैकदेशमित्यव्ययीभावः। यथासमुदायाद्यथैकदेशं क्रमेण निर्धार्यते पृथक्कियते । कथम्, परावधि। परमुत्कृष्टतममेक देशमवधिं कृत्वा । निर्धारणं च गुणकियाजातिभिः संभवति । अत आह –गुणवदिति । गुणवत्वेन, न तु क्रियाजातिभ्याम् । क्रमेणेति चाक्रमनिवृत्यर्थम् । तेनेह सारत्वं न भ- वति यथा–नदीषु गङ्गा नगरीषु कावी पुष्पेषु जाती रमणीषु रम्भा । सदोत्तमत्वं पु रुषेषु विष्णुरैरावणो गच्छति वारणेषु । ' नह्यत्र शृङ्कलाकटकवन्निधीरणम् । कस्तर्ह्येषो ऽलंकारः, साराभास इत्युच्यते । सर्वत्र हि संपूर्णलक्षणाभावे आभासत्वं कविभिर्यवस्था पितम् । निरतिशयग्रहणमतिशयालंकारत्वनिवृत्त्यर्थम् । अन्यरूपत्वात्तस्य । सारत्वमुत्क र्षस्तत्र चातिशयालंकाराशङ्केति । अथवाप्याक्षेपिकगुणवत्वनिवृत्यर्थमिति ॥ उदाहरणम् राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥ ९७ ॥ राज्य इति । अत्र सप्ताङ्गराज्यसमुदायाद्वसुधाख्यैकदेशस्य, ततोऽपि पुरस्येत्यादि गुणवत्वेन निर्धारणम् ॥ अथ सूक्ष्मम्— यत्रायुक्तिमदर्थो गमयति शब्दो निजार्थसंबद्धम् । अर्थान्तरमुपपत्तिमदिति तत्संजायते सूक्ष्मम् ॥ ९८ ॥ यत्रेति । प्रतिपाद्येऽर्थे यस्य युक्तिर्न विद्यतेऽसावयुक्तिमदर्थः शब्दो यत्रात्मीयार्थसं बद्धमर्थान्तरं गमयति प्रत्यापयति तत्सूक्ष्मम् । ननु यस्य निजार्थेऽपि युक्तिर्नास्ति तस्य कुतस्तत्संबन्धे स्यादित्याह--उपपतिमदिति । इतिहैंतौ । यतोऽर्थान्तरे तत्संबद्धं घटना विद्यते । अत एव सूक्ष्मावगमकारणात्सूक्ष्ममिति नाम । उदाहरणमाह- आदों पश्यति बुद्दिर्यवसायोऽकाहीनमारभते। धैर्यं व्यूढमहाभरमुत्साहः साधयत्यर्थम् ॥ ९९ ॥ आदाविति । व्यवसायः कर्मण्युद्योगः । धैर्यमसंमोहः। उत्साहः शक्तिः । अत्र पुन- बृद्धेर्दर्शनम्,व्यवसायस्यारम्भः, धैर्यस्य भरवहनम्, उत्साहस्य च साधनमचेतनत्वान्न घटते।