पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७. अध्यायः काव्यालंकारः । ९३ अथ व्यतिरेकः यो गुण उपमेये स्यात्तत्प्रतिपन्थी च दोष उपमाने । व्यस्तसमस्तन्यस्तौ तौ व्यतिरेकं त्रिधा कुरुतः ॥ ६ ॥ य इति । उपमेये यो गुणः स्यादुपमाने च तस्य गुणस्य प्रतिपन्थी विरुद्धो

यो दो-

घस्तौ गुणदोषौ व्यतिरेकमलंकारं त्रिधा त्रिविधं कुरुतः । कथमित्याह--व्यस्तसमस्त- न्यस्ताविति । तत्र गुण एवोपमेये न्यस्यते न तूपमाने दोष इत्येकः प्रकारः । तथोपमाने दोषो न्यस्यते, न तूपमेये गुण इति द्वितीयः । एवं व्यस्तभेदौ द्वौ । तथोपमेये गुणोऽपि न्यस्यते, उपमाने च दोषोऽपीति समस्तन्यासे एक एव प्रकार इति त्रैविध्यम् । गुण क्षेत्र हृदयावर्जकार्थविशेषो गृह्यते, न तु द्रव्यगुणक्रियाजातिषु प्रसिद्धः। दोषोऽपि चोक्तगुणविपक्ष एव । न चात्रौपम्यालंकारभेदत्वमाशङ्कनीयम् । सादृश्याभावात् । उपमानोपमेयपदोपादानं तु व्यतिरेकसिंधुम् । नह्यन्यथा संघटते गुणिनः सदोषेण सहौपम्यविघटनं व्यतिरेक इति कृत्वा । तदुदाहरणान्याह सकलहून जडेन च साम्यं दोषाकरेण कीदृक्ते । अभुजंगः समनयनः कथमुपमेयो हरेणासि ॥ ७ ॥ सकलब्रेनेति । सकलङ्कयार्यार्धम् । अत्रोपमाने दोषन्यास उपमेये गुणवत्ता प्रतो यते । अभुजंग इत्याद्युत्तरार्धम् । अत्रोपमाने सदोषत्वं गम्यते । तरलं लोचनयुगलं कुवलयमचलं किमेतयोः साम्यम् । विमलं मलिनेन मुखं शशिना कथमेतदुपमेयम् ॥ ८ ॥ तरल मिति । अत्रोपमेये गुण उपमाने दोषश्च न्यस्त इति समस्तो भेदः । भेदान्तरमाह यो गुण उपमाने वां तत्प्रतिपन्थी च दोष उपमेये । भवतो यत्र समस्त स व्यतिरेकोऽयमन्यस्तु ॥ ८९ ॥ य इति । सोऽयं व्यतिरेकोऽन्यः पूर्वविलक्षणः, यत्रोपमाने गुणस्य न्यास उपमेये च दोषस्य । तौ समस्तौ न्यसनीयौ । व्यस्तयोरपि केचिदिच्छन्ति । यथा —‘अभ्यर्णवति दायं वस्तु तदानीं विदह्याग्निः । शाम्यति यस्तेन कथं समो ननु स्यात्प्रियाविरहः ॥ ' तथा—‘स्वदनेव तदावेऽपि बाधितोऽपि न शाम्यति । यः स दासेरकः क्षुद्रक्ष्वेडतुल्यः किमुच्यते । तदेतद्युक्तम् । पूर्वेणैव सिद्धत्वात् । सर्वोऽप्यास्मीयधर्मीकष गुणः । स चात्रोपमेये विद्यत इति ॥ उदाहरणमाह क्षीणः क्षीणोऽपि शशी भूयो भूयो विवर्धते सत्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥ ९० ॥