पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
काव्यमाला ।

पतितं कोपं कस्मान्न पश्यसि । एनं च कोपं बहुगुणं गृहाण। मनसो हृदयाच्च तमोरूपं हृदयनाथं वल्लभं मुञ्च त्यजेति ॥ यस्य प्रविशेदन्तर्वाक्यं वाक्यस्य संगतार्थतया । तद्भर्भितमिति गमयेन्निजमर्थं कष्टकल्पनया ॥ ४३ ॥ यस्येति । यस्य वाक्यस्यान्यद्वाक्यं समृद्धार्थत्वेनान्तर्मध्ये प्रविशेत्तद्भभितं नाम । का तस्य दुष्टतेत्याह-गमयेन्निजमर्थमभिधेयं कष्टकल्पनया क्लेशेति । निदर्शनमाह योग्यो यस्ते पुत्रः सोऽयं दशवदन लक्ष्मणेन मया । रक्षैनं मृत्युमुखं प्रसह्य लघु नीयते विवशः ॥ ४१ ॥ योग्य इति । अङ्गदमुखेन लक्ष्मणो रावणमाह-हे दशवदन, योग्यो यस्ते तव पुत्रः सोऽयं मया लक्ष्मणेन प्रसह्य हठान्मृत्युमुखं विवशः परवशः संल्लघु शीध्रं नीयते तस्मा द्रक्षैनम् । अत्र रक्षैनमिति गर्भवाक्यं यावन्मध्यान्नोद्धृत्य पृथक्कृतं तावन्मूलवाक्यं कष्टक ल्पनयार्थं गमयति ॥ गतार्थमाह यस्यार्थः सामथर्यादन्यार्थेरेव गम्यते वाक्यैः। तदिति प्रबन्धविषयं गतार्थमेतत्ततो विद्यात् ॥ ४५ ॥ यस्येति । यस्य वाक्यस्यार्थेऽभिधेयं प्रयोजनं वान्याभिधेयैर्वाक्यैर्गम्यते । एवकारो भिन्नक्रमे । गम्यत एवेत्येवं द्रष्टव्यम् । कथं गम्यते सामथ्र्यात् । अन्यार्थानामपि तद थभिधानशक्तियुक्तत्वादित्यर्थः । तदित्येवंप्रकारं वाक्यं गतार्थम् । अथ कथमत्र नोदाहृत मित्याह--तदेतत्प्रबन्धविषयं विपुलग्रन्थगोचरमतस्ततः प्रबन्धादेव विद्याज्जानीयात् । नान्यथाख्यातुं शक्यत इति । प्रबन्धे दर्यते यथा किरातार्जुनोयकाव्ये हिमाचलवर्णने ‘मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहः । दधतमुच्चशिलान्तरगोपुरा पुर इवोदितपुष्पवना भुवः ॥' इत्यनेन क्ष्लोकेन मणयोऽप्सरस उद्यानानि च सन्त्यत्तः सेव्योऽयं पर्वत इति प्रतिपाद्यते । एतच्चान्यार्क्याथैव्रान्तरैरेव कथितम् । तद्यथा—‘रहि तरलंचर्यान्न शिलोच्चयानपलताभवना न दरीभुवः। विपुलिनाम्बुरुहा न सरिद्वधू रकुसु मान्दधतं न महीरुहः ॥’ ‘दिव्यस्त्रीणां सचरणलाक्षारागा रागायाते निपतितपुष्पापीडाः। पोडाभाजः कुसुमचिताः साशंसं शंसन्त्यस्मिन्सुरतविशेषं शय्याः ।' अत्र यदेतन्मध्यमं वाक्यमुक्तमेतत्कविना किं कर्तव्यमुत नेत्याह पुष्टार्थालंकारं मध्यममपि सादरं रचयेत् । गामभ्याजेति यथा यात्किचिदतोऽन्यथा तद्वि ॥ ४६॥