पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४ अध्यायः]
३७
काव्यालंकारः ।

 उदाहरणमिदम्—

   साधौ विधावपर्तावपराहावास्थितं विषादमितः।
  आयासि दानवत्त्वं तद्धर्म्यं परमकुर्वाणः ॥ ४ ॥

 साधाविति । अत्र महासत्त्वो दरिद्रो वर्ण्यते—कश्चिन्नरो दानवतो भावो दानवत्त्वं दातृत्वं तत्पुराकृतमकुर्वाणोऽसंपादयन्विषादमितः प्राप्तः । कीदृशं दातृत्वम् । विधिदैवं तस्मिन्नास्थितमायत्तम् । दैवाधीनमित्यर्थः । दैवेऽनुकूले भवतीति भावः । कीदृशे विधौ । सहाधिभिर्वर्तत इति साधिस्तस्मिन् । नित्यमेव मनःपीडावह इत्यर्थः । तथापर्तौ सदा संनिधानादपगतोऽर्तुः कालविशेषो यस्य सोऽपर्तुस्तस्मिन् । तथापराहावविद्यमानः परः प्रतिपक्षो यस्यासावपरः स चासावहिश्च सर्पश्च पीडाकारित्वादपराहिस्तस्मिन् । अपरस्याहेर्नकुलादिहिंसको भवति, अस्य तु नैवं । अन्यच्च कीदृशं दानवत्त्वम् । आयास्यघटनादभीक्ष्णं खेददायि । तथा धर्म्ये स्वभावतो धर्मादनपेतम्, अत एव परं श्रेष्ठम् । एष एकस्य वाक्यस्यार्थः । अपरस्य तु—साधावित्यादि कश्चिद्वाणासुरमाह- हे दानव दनुसुत, त्वं बाणो बाणाख्य इतोऽस्मात्प्रदेशाद्विषादं कालकूटभक्षकं शिवमायास्यागच्छसि। कीदृशं शिवम्। विधौ चन्द्रमस्यास्थितमास्था संजातास्येति तम् । कीदृशे विधौ । साधौ सुन्दरे । तथापगता ऋतिर्गमनं यस्यासावपर्तिस्तस्मिन्। सदावस्थिते । तथापगतो राहुर्विधुंतुदो यस्मादसौ तथाविधस्तस्मिन्। किमिति तत्सकाशमायासीत्याह-तस्य हर्म्ये स्थानं तद्धर्म्ये यतः परमोत्कृष्टा कुर्भूमिः । निर्वाणपदमित्यर्थः । साधावित्यादाविकारोकारयोः सप्तमीविभक्तिवशादैकरूप्यम्। आस्थितमितः प्रभृतिषु प्रत्ययवशात्। तद्धर्म्यमित्यत्र धकारहकारवर्णवशादिति। परमकुर्वाण इत्यत्रैकत्रौष्ट्योऽन्यत्र दन्त्यौष्ठ्यौ वकारस्तत्कथमेकरूपता वर्णानाम् । सत्यम् । यमकश्लेषचित्रेषु बवकारयोरोष्ठ्यदन्त्यौष्ठ्ययोरभेदो दृश्यते । यथा —‘तस्यारिजातं नृपतेरपश्यदबलं वनम् । ययौ निर्भरसंभोगैरपश्यदवलम्बनम् ।।' तथा नकारणकारयोश्च न भेदः। यथा—'वेगं हे तुरगाणां जयन्नसावेति भङ्गहेतुरगानाम्' इति शिवभद्रस्य । विसर्जनीयभावाभावयोश्च न विशेषः । यथा–‘द्विषतां मूलमुच्छेत्तुं राजवंशादजायथाः । द्विषद्भ्यस्त्रस्यसि कथं वृकयूथादजा यथा ।॥' अत्र ह्येकत्राजायथा इति विसर्गान्तं क्रियापदम्, अपरत्र यथाशब्दोऽव्ययम् । तथान्त्ययोर्मकारनकारयोश्च न भेदः । यथा—‘प्रापयाशुरथं वीर समीरसमरंहसम् । द्विषतां जहि निःशेषपृतनाः समरं हसन् ॥’ अत्र हि समरंहसमिति मान्तम्, हसन्निति नान्तं पदम्। तथा व्यञ्जनात्परस्यैकस्यं व्यञ्जनस्य द्वयोर्वा न विशेषः । यथा-‘शुक्ले शुक्क्लेशनाशं दिशति’ इत्यादौ शुक्ले शुक्क्ले यमकः । तस्मिंश्चैकत्र शुक्लगुणयुक्ते, अन्यत्र शुचः क्लेशस्य च नाशं दिशतीत्यर्थः । अत्र ह्येकत्र ककाराल्लकार एवैकं व्यञ्जनम्, अन्यत्र ककारो लकारश्च द्वयमिति ।

  अथ पदश्लेषः—

  यस्मिन्विभक्तियोगः समासयोगश्च जायते विविधः ।
  पदभङ्गेषु विविक्तो विज्ञेयोऽसौ पदश्लेषः ॥ १ ॥