ताम् । किं तर्हीदानीं करोतीत्याह—तं प्रियमधुनेदानीं मधुना वसन्तेन हृदि मनसि निहितमर्पितं रतिसारं रतप्रधानं सा स्मरति ध्यायति । अहर्निशं दिवानिशम् । अत्र न देशविभागेनावृत्तिर्नाप्यवयवविभागेन । यतो द्रुतविलम्बिताख्यं द्वादशाक्षरमेतद्वृत्तम् । अस्यार्धे षडक्षराणि । अत्र च प्रथममक्षरं मुक्त्वा त्रीणि यमकितानि ॥
तथा—
कमलिनी सरसा सरसामियं विकसितानवमं नवमण्डनम् ।
किमिति नाधिगता धिगतादृशं मधुकरेण बताणवता कृतम् ॥ १८ ॥
कमलिनीति । इयं कमलिनी पद्मिनी किमिति कस्मान्मधुकरेण भृङ्गेन नाधिगता न संप्राप्ता । धिक्कष्टम् । तेनाणवता शब्दवतातादृशमयुक्तं कृतम् । धिग्बतशब्दावत्र खेदाधिक्यं सूचयतः। कीदृशी । सरसा नूतना । विकसिता प्रफुल्ला । अत एव सरसां जलाशयानामनवमं श्रेष्ठं नवमण्डनं प्रत्यग्रालंकरणम् । अत्रापि देशावयवानपेक्षयावृत्तिः ।
अध्यायमुपसंहरन्यमकस्वरूपं विषयं चाह—
इति यमकमशेषं सम्यगालोचयद्भिः |
इतीति । इति पूर्वोक्तं यमकमशेषं सर्वे समस्तपादैकदेशजं सम्यग्यथान्यायमालोचयद्भिः सत्कविभिरभियुक्तैः सावधानैः । तथा वस्तु च विषयभागमालोचयद्भिः । यथा कस्मिन्रसे कर्तव्यम्, क्व वा न कर्तव्यम् । यमकश्लेषचित्राणि हि सरसे काव्ये क्रियमाणानि रसखण्डनां कुर्युः । विशेषतस्तु शृङ्गारकरुणयोः । कवेः किलैतानि शक्तिमात्रं पोषयन्ति, न तु रसवत्ताम् । यदुक्तम्&mdash‘यमकानुलोमतदितरचक्रादिभिदो हि रसविरोधिन्यः । अभिधानमात्रमेतद्गड्डरिकादिप्रवाहो वा ॥’ प्रयोगस्तु तेषां खण्डकाव्येषु देवतास्तुतिषु रणवर्णनेषु च । तदेवाह--औचित्यविद्भिरिति । औचित्यं यमकादिविधानास्थानस्थानादिकं विदन्ति ये तैः । कीदृशं यमकम् । सुष्टु विहिता हृदयंगमाः पदभङ्गा यत्र तत्तथाभूतम् । तथा सुप्रसिद्धान्यभिधानानि वस्तुवाचकशब्दा यत्र तत्तथाभूतं यमकम् । तदनु चौचित्यादिज्ञानानन्तरं विरचनीयम् । भूम्ना बाहुल्येन सर्गबन्धेषु महाकाव्येषु। नाटककथाख्यायिकादिषु पुनः स्वल्पमेवेत्यर्थः ॥
इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत-
स्तृतीयोऽध्यायः समाप्तः ।