पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३ अध्यायः]
२७
काव्यालंकारः ।


एतदिति । समस्तपादावृत्तियमकोदाहरणैरेव पूर्वोक्तैरेतदुदाहरणानां दिक्प्रदर्शनं कृ तमितीह विंशतिभेदं यमकं नोदाहृतमिति । यद्यपि चोभयत्राप्यत्रैकादशोऽपि भेदः संभवति । यथा यादृशानि प्रथमश्लोक आद्यन्तानि चार्धानि कृतानि तादृशान्येव तानि लोकान्तरे क्रियन्त इति कृत्वा तथापि महाकवीनां न क्वचिदेवंविधं लक्ष्यं दृश्यत इति दशैव भेदा उक्ताः ॥ इदानीमन्यत्र देश आवृत्त्या तानाह प्रथमतृतीयान्त्यार्धे तदनन्तरभागयोः परावृत्ते । अन्तादिकमिति यमकं व्यस्तसमस्ते त्रिधा कुरुतः ॥ २३ ॥ प्रथमेति । प्रथमपादान्त्यार्धे द्वितीयपादाद्यर्थे तृतीयपादान्त्यार्धे च चतुर्थपादाद्यर्थे प रावृत्तं प्रत्येकं युगपच्चेत्यन्तादिकं नाम त्रिविधं यमकमन्ताद्योर्यमकनाद्भवतीति ।। तत्रोदाहरणानि नारीणामलसं नाभि लसन्नाभि कदम्बकम् । परमास्त्रमनङ्गस्य कस्य नो रमयेन्मनः ॥ २४ ॥ नारीणामिति । नारीणां कदम्बकं स्त्रैणं कस्य मनश्चित्तं नो रमयेत्प्रीणयेत् । कीदृशम्। अलसं मन्थरगमनम् । तथा नाभि अबलात्वात्सभयम् । तथा लसन्ती मनोज्ञा नाभि- र्यस्य तत्तथा । तथा परमास्त्रं प्रकृष्टायुधमनङ्गस्य ।। द्वितीयोदाहरणमाह पश्यन्ति पथिकाः कामशिखिधूमशिखामिव । इमां पद्मालयालीनां लयालीनां महावलीम् ॥ २१ ॥ पश्यन्तीति । पद्मन्यालयो येषां ते च तेऽलयश्च भ्रमराश्च तेषां महावलीं दोर्घश्रेणी मिमां पथिकाः पान्थाः पश्यन्ति । कीदृशीम् । लयेनान्योन्यश्लेषेणालीनां संबद्धम् । कामशिखिधूमशिखामिव स्मरानलधूमलेखामिव । इति व्यस्तोदाहरणे ।। समस्तोदाहरणमाह-- पुष्यन्विलासं नारीणां सन्नारीणां कुलक्षयम् । आ कल्पं वसुधासार सुधासार जगज्जय ॥ २६ ॥ पुष्यान्निति । हे वसुधासार भूप्रधान नृप, आ कल्पं युगान्तं यावज्जगद्भवनं जय । कीदृश। सुधासार अमृतवेगवर्ष । किं कुर्वन् । पुष्य​न्पुष्टिं नयन् । कम् । विलासम् । कासाम् । नारीणाम् । तथा सन्नानामवसादं गतानामरीणां रिपूणां कुलक्षयमन्वयान्तं पुष्यन् । अन्तर्भावितकारितार्थोऽत्र पुषिः सकर्मकः ।। भेदान्तराण्याह

द्वैतीयमन्यमर्घ​ परिवृत्तमनन्तरे भवेन्मध्यम् ।

मध्यसमस्तान्तादिकयोगादपि जायते वंशः ॥ २७ ॥