पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५४ काव्यमाला।

उद्भतानन्दभरा प्रस्तुतजघनस्थलाद्रवसना च । निःष्पन्दतारनयना भवति तदालोकनादेव ॥ ३७ ॥ कन्या पुनरभियुद्धे न स्वयमेनं गतापि दुरवस्थाम् । सुस्निग्धा तदवस्थां सखी तु तस्मै निवेदयति ॥ ३८ ॥ सर्वाङ्गना तु वेश्या सम्यगसौ लिप्सते धनं कामात् । निर्गुणगुणिनोस्तस्या न द्वेष्यो न प्रियः कश्चित् ॥ ३९ ॥ गम्यं निरूप्य सा स्फुटमनुरक्तेवाभियुज्य रञ्जयति । आछष्टसकलसारं क्रमेण निष्कासयत्येनम् ॥ ४० ॥ आत्मेत्याद्यायपञ्चविंशतिः सुगमा न वरम् । आत्मीया परकीया वेश्या चेति मूलभे- दत्रयम् । आत्मीया च, मग्धा मध्या प्रगल्भा चेति पुनस्त्रेधा । पुनश्च मध्याप्रगल्भयो- धीराधीरा मध्या चेति प्रत्येकं भेदत्रयम् । पुनश्च ज्येष्ठाकनिष्टात्वेन मध्याप्रगल्भयोर्भ दद्वयम् । मुग्धा त्वेकभेदैव । काव्येषु तथा प्रसिद्धेः । अक्षतयोनित्वात्पुनविवाहिता पुनर्भू: । परकीया, कन्या परिणीता चेति द्विभेदा । वेश्या त्वेकरूपैवेति । तल्लक्षणं च स्वयं योजनीयमिति ॥ [ता एवाधीनपतिर्वासकसज्जाभिसारिकोत्का च । अभिसंधिता प्रगल्भा प्रोषितपतिखण्डिते चाष्टौ ॥ यस्याः सुरतविलासैराकृष्टमनाः पतिः स्थितः पार्श्वे। विविधक्रीडासक्ता साधीनपतिर्भवेत्तत्र ॥ निश्चितदयितागमना साज्जितनिजगेहदेहशयनीया । ज्ञेया वासकसज्जा प्रियप्रतीक्षितद्वारा ॥ अभिसारिकेति सेयं लज्जाभयलाघवाननालोच्य । ‘अभिसंरति प्राणेशं मदनेन मदेन चाकृष्टा । नोपगतः प्राणेशो गुरुणा कार्येण विघ्नितागमनः। यस्याः किं तु स्यादित्याकुलचित्तेत्यसावुत्का । अनुनयकोपं कृत्वा प्रसाद्यमानापि न प्रसन्नेति । यस्या रुषेव दयितो गच्छत्यभिसंधिता सेयम् । यस्या जीवितनाथः संकेतकमात्मनैव दत्त्वापि। नायात्युपागतायां तस्यामिति विप्रलब्धेयम् ।