पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ काव्यमाला । य इति । यो गुणादिर्यस्य पदार्थस्याव्यभिचारी नित्यस्थः स गुणादिस्तस्य विशे षणतया यत्र क्रियते स दोषस्तद्वानिति ज्ञेयः । यद्यव्यभिचारी तर्हि किमर्थं क्रियत इ त्याह-परिपूरयितुं छन्दः । तस्य हि छन्दःपूरणमात्रमेवार्थ इति । उदाहरणम् क्व नु यास्यन्ति वराकास्तरुकुसुमरसैकलालसा मधुपाः। भस्मीकृतं वनं तद्दवदहनेनातितीवेण ॥ १६ ॥ केति । अत्र दवदहनस्यातितीव्रणेति विशेषणं छन्दःपूरणार्थमेव । तत्राव्यभिचा- * रादिति । अथातिमात्रः अतिदूरमतिक्रान्तो मात्रां लोकेऽतिमात्र इत्यर्थः । तव विरहे हैरिणाक्ष्याः छावयति जगन्ति नयनाम्बु ॥ १७ ॥ अतिदूरमिति । योऽथ लोकप्रसिद्धां मात्रां परिमाणमतिदूरमत्यर्थमतिक्रान्त उल्लखितः सोऽतिमात्रोऽर्थदोषः । उदाहरणम्--तवेत्याद्युत्तरार्धम् । अत्राश्रुलक्षणोऽर्थो मात्रां त्यक्तवान् । परा ह्यभूणां भूयस्ता यद्वत्रार्टीकरणम् । न तु प्रलयजलदवज्जगत्प्लावनम् ।। अथ यत्पूर्वमुक्तम् ‘तत्कारणमन्यथोक्तौ च' (११।१) इति तदाह अत्यन्तमसंबद्धं परमतमभिधातुमन्यदश्चिष्टम् । संगतमिति यद्भयात्तत्रायुक्तिर्न दोषाय ॥ १८ ॥ अत्यन्तमिति । असंबद्धर्थता महान्दोषः । तस्यापवादोऽयम् । यत्र परकीयं मतम- तिशयेनासंबद्धं प्रतिपादयितुमन्यदात्मीयमश्लिष्टमसंबद्धमर्थं वक्ता वक्ति तत्रायुक्तिरसंगतता न दोषाय । अथ कथं तेनासंबद्धेन परमतस्यासंबद्धता प्रतिपाद्यत इत्याह-संगतमिति । इतिहृतौ । यतस्तस्यासंबद्धस्याश्लिष्टमेव संगतं सदृशतयं दर्शयितुम् । किमेदमसगतमांस्मन्नादावन्यत्तथान्यदन्ते च । यत्नेनोप्ता माषाः स्फुटमेते कोद्रवा जाताः ॥ १९ ॥ किमिदमिति । कश्चिदसंबद्धे परवचनं क्षिपन्नाह-अस्मिन्वस्तुनि किमिदमसंगतं भवतोच्यते । कुतः । आदौ प्रारम्भेऽन्यत्तथान्ते च निर्गमे चान्यदिति । किमिवासंभव- मिति तत्सदृशमाह--यथा माषा उप्ताः कोद्रवाश्वोत्पन्ना इत्यसंबद्धम्, एवं तवापि वचन मित्यर्थः ।। भूयोऽप्याह अभिधेयस्यातथ्यं तदनुपपन्नं निकाममुपपन्नम् । यत्र स्युर्वक्तृणामुन्मादो मौर्यमुत्कण्ठा ॥ २० ॥