पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ काव्यमाला । भवेत्तद्विषमनामालंकारः । ननु यदि वस्तुनोः कार्यकारणभावःकथं तदुणयोः क्रिययौर्वा विरोधः । सत्यम् । अत एवातिशयत्वम् ॥ २ अरिकरिकुम्भविदारणरुधिरारुणदारुणादतः खङ्गात् । वसुधाधिपते धवलं कान्तं च यशो बभूव तव ॥ ४६ ॥ अरीति। अत्र कारणस्य खङ्गस्य गुणौ लौहित्यदारुणत्वे, कार्यस्य यशसो धवलत्व कान्तत्वे, तेषां चान्योन्यं विरोधः ।। तथा- । आनन्दममन्दमिमं कुवलयदललांचन ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥ ४७ ॥ आनन्देति । अत्र कारणस्य नायिकायाः क्रिया आनन्ददानम्, कार्यस्य तु विरहस्य तापनम्, तयोश्चान्योन्यं विरोधः । अथासंगतिः विस्पष्टे समकालं कारणमन्यत्र कार्यमन्यत्र। यस्यामुपलभ्येते विज्ञेया संगतिः सेयम् ॥ ४८ ॥ विस्पष्ट इति । सेयमसंगतिबद्धव्या, यस्यां विस्पष्टं प्रक्रटे समकालमेव च कार्य मन्यत्रोपलभ्यते कार्य वान्यत्रेति । अत एवासंगतिर्नाम, अतिशयत्वं च । उदाहरणम् -- नवयौवनेन सुतनोरिन्दुकलाकोमलानि पूर्यन्ते । अङ्गान्यसंगतानां यूनां हृदि वर्धते कामः ॥ ४९ ॥ नवेति । अत्राङ्गपूरणाख्यं कारणं तन्वीस्थम्, मदनवर्धनं कारणं युवस्थं विस्पष्टमेव । पलभ्यते ।। अथ पिहितम्- यत्रातिप्रबलतया गुणः समानाधिकरणमसमानम् । अर्थान्तरं पिदध्यादाविर्भूतमपि तत्पिहितम् ॥ १० ॥ यत्रेति । यत्रैकाधारमर्थान्तरं कर्मभूतं गुणः कर्तातिप्रबलतया हेतुभूतया पिदध्यात्स्थ- गयेत्तत्पिहितं नामालंकारः। ननु तुल्यं गुणान्तरं स्थग्यत एव किमतिशयत्वमित्याह- असमानम् । असदृशमित्यर्थः । कदाचिदसमानमप्यलब्धपाटवं स्यादित्यत आह — { आविर्भूतमपीत्यर्थः । असमानग्रहणेन प्रथमातङ्गुणालंकाराद्विशेषः ख्याप्यते, तत्र चैकगु णानामर्थानां संसर्गे नानात्वं लक्ष्यत इत्युक्तम् । द्वितीयात्तर्हि कोऽस्य विशेषः । उच्यते--तत्रासमानगुणं वस्तु वस्त्वन्तरेण प्रबलगुणेन संसृष्टं तद्रणतां प्राप्यते, न त-