पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ अध्यायः ॥ काव्यालंकारः । १२७ यत्रेति । यत्रैकस्मात्कारणाद्वस्तुद्वयमुत्पद्यत इत्युच्यते तदधिकम् । किमेतावतातिशयः वमित्याह-अन्योन्यविरुद्धम् । परस्परविरुद्धस्वभावमित्यर्थः । प्रकारान्तरमाह-विरु द्वाभ्यां बलवतीभ्यां क्रियाभ्यां प्रसिद्धं वा यत्रैकस्मात्कारणाद्वस्तुद्वयं जायते तदप्यधिकम् । उदाहरणम् मुञ्चति वारि पयोदो ज्वलन्तमनलं च यत्तदाश्चर्यम् । उदपद्यत नीरनिधेर्विषममृतं चेति ताच्चित्रम् ॥ २७ ॥ मुञ्चतीति । अत्र पूर्वार्धे एकस्मान्मेघाद्वस्तुद्वयं वारिज्वलनलक्षणं विरुद्ध जायमानमुः हुक्तम् । उत्तरार्धे त्वेकस्मात्समुद्राद्वस्तुद्वयं विषामृतलक्षणमन्योन्यविरुद्धक्रियमुक्तम् । वि घामृतयोर्हि न परस्परं विरोधः। किं तु मारणजीवनक्रिये विरुद्धं । इत्युदाहरणद्वयमेतत् । भेदान्तरमाह यत्राधारे सुमहत्याधेयमवस्थितं तनीयोऽपि । अतिरिच्येत कथंचित्तदधिकमपरं परिज्ञेयम् ॥ २८ ॥ यत्रेति । यत्र सुमहत्यप्याधारेऽतिशयवत्यप्याधेयं वस्त्ववस्थितं कुतश्चित्कारणान्न माति तदपरमधिकं बोद्धव्यम् । उदाहरणम्- जगद्विशाले हृदि तस्य तन्वी प्रविश्य सास्ते स्म तथा यथा तव। पर्याप्तमासीदखिलं न तस्यास्तत्रावकाशस्तु कुतोऽपरस्याः ॥ २९॥ जगदिति । अत्र जगद्विस्तीर्णेऽपि हृदये आधारे तन्वीलक्षणमाधेयं स्वल्पमपि न माति । तस्यास्तत्रामानमनुरागाद्वहिरपि सर्वत्र दर्शनात् । तन्वीति साभिप्रायमत्र नाम । अथ विरोधः= यस्मिन्द्रव्यादीनां परस्परं सर्वथा विरुद्धानाम् । एकत्रावस्थानं समकालं भवति स विरोधः ॥ ३० ॥ यस्मिन्निति । यत्र द्रव्यगुणक्रियाजातीनां विरुद्धानामेकत्राधारेऽवस्थानं भवति स विरोधः । परस्परमन्योन्यम् । न त्वाधारेण सह । तथा सर्वप्रकारं सजातीयैर्विजातीयैश्च सहेत्यर्थः । समकालमिति युगपत् । अत एवातिशग्रत्वं भवति । एवं सर्वथा विरोधे सति कियन्तों भेदा इति तत्संख्यामाह अस्य सजातीयानां विधीयमानस्य सन्ति चत्वारः । भेदास्तन्नामानः पञ्च त्वन्ये तदन्येषाम् ॥ ३१ ॥ अस्येति । अस्य विरोधस्य सजातीयानां द्रव्यादीनां विधीयमानस्य चत्वारो भेदा: सन्ति । यथा द्रव्ययोर्विरोधो द्रव्यविरोधः। एवं गुणविरोधः क्रियाविरोधो जातिविरो