पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९ अध्यायः] काव्यालंकारः । . १२३ किंचिदिति । यस्मिन्नलंकारे किंचिद्वस्त्ववश्याधेयमिति विद्यमानाधारमेव सन्निराधा- रमित्यभिधीयते स इत्यनेन प्रकारेण विशेषनामालंकारो ज्ञेयः। ननु तथाभूतस्यान्यथा कथनं दोष एव स्यान्न त्वलंकार इत्याह-तादृगुपलभ्यमानमिति । तथा दर्शनान्न किं- चिदनुपपन्नमित्यर्थः । वस्त्वन्तरेभ्यो विशिष्टधर्माभिधानाद्विशेषसंज्ञा ॥ उदाहरणम्- दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति गिरः कथमिह कवयो न ते वन्द्याः ॥ ६ ॥ दिवमिति । अत्र गिर आधेयाः । प्राण्याश्रितत्वात् । अथ च विनापि कविभिराधारि रमयन्तीत्युपलब्ध्या कथितम् ॥ प्रकारान्तरमाह- यत्रैकमनेकस्मिन्नाधारे वस्तु विद्यमानतया । युगपदभिधीयतेऽसावत्रान्यः स्याद्विशेष इति ॥ ७ ॥ .यत्रेति। यत्रानेकस्मिस्त्र्यादिक आधारे वस्तु सत्तया कथ्यते सोऽत्रान्यः प्रकारान्त- रेण विशेष इति । कदाचिद्वस्त्वप्यनेकं स्यात्तत्रातिशयत्वमित्यत आह - -एकमिति एकमपि पर्यायेणानेकत्र तिष्ठत्येवेति न विशेष इत्याह-युगपदित्यादि ॥ उदाहरणम्- हृदये चक्षुषि वाचि च तव सैवाभिनवयौवना वसति । वयमत्र निरवकाशा विरम कृतं पादपतनेन ॥ ८ ॥ हृदय इति । अत्रैका तरुणी युगपदनेकस्मिन्नाधारे हृदयादिके वसन्ती कथिता । अत एव परस्या निरवकाशत्वम् ।। भूयोऽपि भेदान्तरमाह- यत्रान्यत्कुर्वाणो युगपत्कार्यान्तरं च कुर्वीत । कर्तुमशक्यं कर्ता विज्ञेयोऽसौ विशेषोऽन्यः ॥ ९॥ यत्रेति । असावन्यो विशेषो ज्ञेयः, यत्र कर्तान्यत्कर्म कुर्वाणः सन्कर्मान्तरं कुर्वीत । पर्यायेणान्यदपि करिष्यति कोऽतिशय इत्यत आह-युगपत्समकालमिति । एवमपि इसन्पठतीत्यादिवद्भविष्यति तत्किमत्रातिशयत्वमित्याह—कर्तुमशक्यमिति ।अशक्य- क्रियान्तरकरणादतिशय इत्यर्थः ।। उदाहरणम्- लिखितं बालमृगाझ्या मम मनसि तया शरीरमात्मीयम् । स्फुटमात्मनो लिखन्त्या तिलकं विमले कपोलतले ॥ १० ॥ अशक्य-