पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८ अध्यायः काव्यालंकारः । १० ३ उदाहरणम् नवविकसितकमलकरे कुवलयदललोचने सितांशुमुखि । दहसि मनो यत्तकिं रम्भागर्भोरु युक्तं ते ॥ २२ ॥ नवेति । अत्र नवविकसितकमलमिव रम्यौ करौ यस्या इति बहुत्रीहिः॥ अथ प्रत्ययोपमामाह- उपमानात्सामान्ये प्रत्ययमुत्पाद्य या प्रयुज्येत । सा प्रत्ययोपमा स्यादन्तर्भूतेवशब्दार्था ॥ २३ ॥ उपमानांदिति । उपमानादुपमानपदादन्यतो वा धात्वादिकात्प्रत्ययं सामान्येन साधा रणधर्मविषय उत्पाद्य या प्रयुज्यते सा प्रत्ययोपमा । सा च प्रत्ययान्तशब्देऽन्तर्भूते वशब्दा ।। उदाहरणम् पद्मयते मुखं ते नयनयुगं कुवलयाग्रते यदिदम् । कुमुदायते तथास्मितमेवं शरदेव सुतनु त्वम् ॥ २४ ॥ पद्मायत इति ।पद्ममिवाचरतीत्यादि वाक्यंम् । एवं धातोः प्रत्यये उद्भक्रोशीत्यादि द्रष्टव्यमिति । एवमुपमात्रयमभिधायेदानीमेतद्वेदान्सामान्येनाह- मालोपमेति सेयं यत्रैकं वस्त्वनेकसामान्यम् । उपमयेतानेकैरुपमानैरेकसामान्यैः ॥ २१ ॥ मालोपमेति । यत्रैकमुपमेयं वस्त्वनेकसामान्यमनेकधर्मकमेकसामान्यैरेकैकधर्मयुक्तैरने- कैरुपमानैरुपमीयते सेयमित्यमुना प्रकारेण मालोपमा । अथायं कोऽलंकारः-गायन्ति किंनरगणाः सह किंनरीभिरुत्तुङ्गशृङ्गकुहरेषु हिमाचलस्य । क्षीरेन्दुकुन्ददलशहामृणाल नालनीहारहारहरहाससितं यशस्ते ।’ मालोपमैवेत्याहुः । यत एकत्वेऽपि शौक्लपस्याने- कसामान्यं विद्यत एव । तस्यानेकरूपत्वादन्यादृशमेव हि तच्छब्द्धेऽन्यादृशं चन्द्रादौ तच्च सर्वं यशसि विद्यत इति । केचित्तु मालोपमाभास इत्याहुः । उदाहरणम् श्यामालतेव तन्वी चन्द्रकलेवातिनिर्मला सा मे । हंसीव कलालापा चैतन्यं हरति निद्रेव ॥ २६ ॥ श्यामालतेति । अत्रोपमेया कान्ता तनुत्वाद्यनेकधर्मयुक्ता । श्यामालतादीन्येकैक- धर्मयुक्तान्युपमानानि । एषा वाक्योपमा। अन्ये त्विमे--‘नवश्यामालतातन्वी शरच्च- न्द्रांशुसप्रभा । मत्तहंसीकलालापा कस्य सा न हरेन्मनः ॥’ समासोपमेयम् । ‘शरच-