पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
काव्यमाला ।

नाम्नामिति । नाम्नां वृत्तिर्वर्तनं द्वेधा, समासवत्यसमासवती चेति । तयोरपिं प्रकार विशेषमाह--तत्र तयोर्दूयोर्मध्यात्समासवया वृत्तेस्तिस्रो रीतयो भवन्ति । रीतिर्भङ्गि- विच्छित्तिरिति पर्यायाः । कास्ता इत्याह

पाञ्चाली लाटीया गौडीया चेति नामतोऽभिहिताः ।
लघुमध्यायतविरचनसमासभेदादिमास्तत्र ॥ ४ ॥

पाञ्चालीति । चः समुच्चये । इति समाप्तौ । एतास्तिस्र एवेत्यर्थः । नामत इत्यनेन नाममात्रमेतदिति कथयति । न पुनः पञ्चालेषु भवा इत्यादि व्युत्पत्तितः। अतिप्रसङ्गात् । तर्हि केन विशेषेण तिस्र इत्याह-लघुमध्येत्यादि । लघु मध्यमायतं च विरचनं यस्य स मासस्य तभ्देदात् । तत्रेत्युत्तरत्र योज्यते । अनियमै प्राते नियमार्थमाह-

द्वित्रिपदा पाञ्चाली लाटीया पञ्च सप्त वा यावत् ।
शब्दाः समासवन्तो भवति यथाशक्ति गौडीया ॥ ५ ॥

द्वित्रिपदेति । द्वे त्रीणि वा यस्यां पदानि । द्वित्रिग्रहणस्योपलक्षणार्थत्वाच्चत्वारि वा समासवन्ति यस्यां सा पाञ्चाली रीतिर्भवति । यस्यां तु द्वितयादारभ्य पञ्च सप्त वा यावत्सा लाटीया । पञ्च सप्त वेति मतद्वयं तदुभयं संगृहीतम् । यस्यां तु समासवन्तः शब्दा अष्टभ्य आरभ्य यथाशक्ति भवन्ति । यावतः कर्तुं शक्तोति तावन्त इत्यर्थः । सा गौडीया । नन्वाख्यातेऽपि पचति प्रपचतीति वृतिद्वैविध्यं कथं न स्यादित्यत आह

आख्यातान्युपसर्गेः संसृज्यन्ते कदाचिदर्थाय ।
वृत्तेरसमासाया वैदर्भा रीतिरेकैव ॥ ६ ॥

आख्यातानीति । आख्यातानि तिङन्तक्रियापदान्युपसर्गेः सार्ध संसृज्यन्ते, न तु समस्यन्ते । सुप्सुपेत्यधिकारात् । किं नित्यमेव । न । कदाचित्कचिदपि। किमर्थमित्याह अर्थाय । यत उक्तम्—‘धात्वर्थं बाधते कश्र्वित्कश्र्वित्तमनुवर्तते । तमेव विशिनट्थन्य उप- सर्गगतित्रिधा । तत्र बाधते यथा–प्रहरति प्रतिष्ठते इत्यादि । अनुवर्तते यथा–प्रहन्ति अभिहन्ति । विशिनष्टि यथा-प्रपचतीत्यादि । इदानीमसमासाया वृत्ते रीतिमाह--वृत्ते रसमासायाः समासरहितपदवृत्तवैदर्भीं नाम रोतिरेकैव । एतोश्च रीतयो नालंकाराःकिं तर्हि शब्दाश्रया गुणा इति । पञ्चविधस्यापि शब्दस्य यत्रोपयोगस्तस्येदानीं वाक्यस्य लक्षणं कर्तुमाह

वाक्यं तत्राभिमतं परस्परं सव्यपेक्षवृत्तीनाम् ।
समुदायः शब्दानामेकपराणामनाकाङ्कः ॥ ७ ॥

वाक्यमिति । तत्रेति पञ्चविधशब्दमध्यादन्यतरबित्रादिभेदानां समुदायो वाक्यम् ।