पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

तत्राहं वृत्तकर्तव्या नीचसंगमलज्जया ।
अधोमुखी च्युतं शीलं वीक्षमाणेब मूर्च्छिता ।। ७३ ।।

अविदूरे चरन्ती सा खरी सर्वं ददर्श तत् ।
गूढगर्भप्रदं चैतत्कर्म मे कुलपातकम् ॥ ७४ ॥

आस्तां किमनया पुत्र गुप्तवृत्तान्तचर्चया
संवृतान्येव शोभन्ते शरीराणि कुलानि च ॥ ७५ ।।

इति मातुर्वचः श्रुत्वा यातः स सहसान्धताम् ।
जातिमानावपतनान्निर्जीवित इवाभवत् ।। ७६ ॥

अथ गत्वा निराहारः स कैलासाट्टहासिनीम् ।
आशां ब्राह्मण्यबद्धाशश्चचार सुचिरं तपः ।। ७७ ॥

तस्योग्रतपसा तुष्टः स्वयमेव शतक्रतुः ।
ब्राह्मण्यं याचमानस्य न ददौ दुर्लभं भुवि ॥ ७८ ।।

पुनः पुनः स तपसा संतापितजगत्त्रयः ।
सहस्राक्षवरात्प्राप देवत्वं न तु विप्रताम् ॥ ७१ ।।

छन्दोदेवाभिधानोऽथ सोऽभवद्भुवि विश्रुतः ।
प्रत्यब्दमेकदिवसे खर्चनीयो मृगीदृशाम् ॥ ८० ॥

संमोहपातालविशालसर्पस्तस्मान्न कार्यः कुलजातिदर्पः ।
शमक्षमादानदयाश्रयाणां शीलं विशालं कुलमामनन्ति ॥ ८१ ॥

माता न यस्वास्त्यविवेकराशिः पुनर्भवाब्धिर्जनको न यस्य ।
यस्य प्रसक्ता दयिता न तृष्णा स एव लोके कुशली कुलीनः ।। ८२ ।।

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविहिते दर्पदलने कुलविचारः प्रथमः ।

द्वितीयो विचारः।

धनेन दर्पः किमयं नराणां लक्ष्मीकटाक्षाञ्चलचञ्चलेन ।
यत्कंधराबद्धमपि प्रयाति नैकं पदं कालगतस्य पश्चात् ॥ १॥

१. सहसान्यताम्' ख-ग, २. 'यस्यास्ति विवेकराशेः' क. ३. 'इति नीतिपद्धती

कुलचिन्चारः प्रथमः' क. ४. "बन्धमपि' क.