जानकीचरणचामरम् ।
सुधावीचीनीचीकरणनिपुणापाङ्गकरुणा-
तरङ्गैरुत्तुङ्गैश्चरणशरणं सिञ्च कृपणम् ।
मम प्रज्ञावापीभवनवकाव्याम्बुजवने
पदन्यासं कुर्याः सरसिजनिवासव्यसनिनि ॥ १०७ ॥
वितानाधस्तानाः शतदशकमुक्तामयलताः
सभायामाभान्ति त्रिदशसरिदोघा इव तव ।
प्रभाभिर्वीचीभिस्तव नखमयूखामृतनिधे-
विलोलैः कल्लोलैः सह परिमिलन्त्यो रसनिधे !! १०८ ॥
सुराः सर्वे सर्वास्तव चरणमूले सुरतरो-
स्त्वमासीना मूलेऽनुचितमिति मत्वा सुरतरुः ।
भवन्मञ्चाधस्ताद्धवि विविधरत्नेषु बहुधा
विशन्प्रायश्चित्तं चरति बहुरूपैः परतरे ॥ १०९ ॥
कपिद्वारा वारामुपरि जलधेः सेतुतरणि-
र्यथोदारा धाराधरसुरुचिरामेण रचिता ।
मैया द्वारा नारायणविधुमुखीपन्नतिरियं
भवोद्धारा साराश्रयहृदयरामेण विहिता ॥ ११० ॥
प्रकृत्या भृत्योऽहं श्वसन इह सामन्ततिलको
मनश्छत्रं पीठं हृदयशतपत्रं विकसितम् ।
सुमानां सम्राजोर्जगदहमहंपूर्वमवतो-
र्वचः स्फीतं सीतारुणचरणयोश्चामरमिदम् ॥ १११ ।।
प्रेमरत्नरचिताक्षरहैमदण्डमण्डितमुपासकगृह्यैः ।
गृह्यतां दशमुखप्रतिमल्लवल्लभाचरणचामरमेतत् ॥ ११२ ॥
इति श्रीमद्रामचरणचन्द्रिकाचकोरायमाणश्रीमारुतिसिद्धान्तविहरमाणविद्वद्धुरीणकौन्तेयाचार्यसूनुश्रीनिवासाचार्यविरचितं सीताचरणचामरस्तोत्रम् ॥
१. मां द्वारीकृत्य. २. सकलबलाश्रयेण हृदये स्थितन च३. पमानामित्यर्थः