पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

जानकीचरणचामरम् ।

त्रिवेणीयं चित्रा त्वदमलपदत्राणजटिता-
रुणश्वेताश्वेताद्भुतमणिमयूखैः परिणता ।
गिरां देवी यस्यामपि सुरसरिद्भास्करसुता
जनानां धुन्वाना सकलशमलं मज्जतितराम् ।। ७१।

यदीहन्ते हन्त श्रवणकुहरेऽनाहतरुता-
नुसंधानं हित्वाद्भुतसुखनिधानं शमधनाः ।
दिवो गव्याः स्तव्यं सुरमणिरणन्नूपुरनुतं
मम प्राणः क्षोणीदुहितृचरणत्राणरणनम् ।। ७२ ।।

दयानन्ते चिन्तामणिमपि पदस्यावनि मृदु-
खनैः कर्णे कुर्वन्त्यमृतरससर्वखमधुना ।
सखीहस्तन्यस्तोभयकरतलां स्निग्धतरलां
दृशोरध्वानं मे गमय कमलामात्तकमलाम् ॥ ७३ ।।

दयाशीले लीलापरिषदि शुकः स्यां तब तदा
चलच्चञ्चुश्चुम्बन्पदकवचयोस्ते कबचितम् ।
मणिग्रामं कामं विदलविदलद्दाडिमधिया
करोमि स्मेरां त्वां सह सहचरीभिर्मुहुरहम् ।। ७४ ॥

अये रामक्षामोदरि मयि कृपां कल्पय तथा
सदासौ त्वत्सौधावनिषु हरिणीभूय विहरन् ।
यथा दूर्वापूर्वाङ्कुरचयधिया चुम्बति भव-
त्पदत्राणप्रोत‌त्रिदशपतिमाणिक्यकिरणान् ।। ७५ ।।

पदाङ्गुल्यस्तुल्यांस्तव कुसुमशस्त्रस्य विशिखा-
ञ्जगज्जिष्णूञ्जेतुं कथमकलयन्वज्रकवचम् ।
अनायासावासं स्मृतिमयमयं वर्म कलय-
न्सुजिह्मब्रह्मास्त्राण्यपि विफलयत्यम्ब शतशः ॥ ७६ ॥

१. अन्तर्भवति. २. हे पाइरक्षिके, ३. तब भक्तः.