पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

श्वासावेगानुवारोच्छ्वसितकुचतटव्यस्तहस्तं जिघृक्षा-
भूमीभूतोत्तरीयं वरयुवतिवपुर्धन्यमात्रानुभाव्यम् ॥ ६ ॥
नाभौ स्थितिस्पृशि महासरसीसनाभौ
मुक्तावलावपि सुपर्वतरङ्गवत्याम् ।
लावण्यसारजलधौ कलधौतगात्रि
चक्षुस्तृषां मम मृषा न कृशां करोषि ॥ ७ ॥
दृग्भङ्गे श्रवणेन साकमरुणे योगं समासेदुषि
प्रत्यापृष्टदरस्फुटत्पुटकिनीपत्रान्तरालेऽनिले।
यो वेणीमवगाहते वरतनोः सर्वात्मना श्रेयसां
तस्य व्याहरणे बिलेशेयपतिः किं लेशतोऽपि क्षमः ॥ ८॥
मधौ सन्माधुर्थे तरुणि विपिने फुल्लतरुणि
प्रसूनैः सामोदे मरुति रुतिमातन्वति पिके ।
प्रशस्ते प्रस्तावे रतिरमणबाणवणगण-
प्रणेये प्राणेशे नमति परुषा मा भव रुषा ॥ ९॥
तादात्म्यानुभवात्स्तनस्तबकयोः सौहित्यमप्रामुव-
न्मुक्तादामनि मेरुरेष सरसं ग्रीवां समालिङ्गति ।
रत्यावेशविवर्तविभ्रमवशाहक्षोजमालिङ्गति
व्यक्तं नायकसंगतादवयवादन्यत्र संयुज्यते ॥ १०॥
वालामुक्ताकलापग्रथनगुणशिखोपाप्रयुग्मस्य योग-
ग्रन्थौ गारुत्मतोऽयं मणिररुणगुणोदग्रगुच्छश्चकास्ति ।
धम्मिल्लव्यालहालाहलगरलसमास्वादनाखादितेन
प्रादुर्भूतेन तापज्वलदनलशिखाजाल केनेव युक्तः ॥ ११ ॥
तव श्रवणभूषणं कुवलयं विहाय क्षणा-
दतिश्चसितसौरभं व्यवसितः समासादितुम् ।
प्रमोदभरमन्थरः प्रियतमाघरद्वारक-
त्वदीयनयनाञ्जनच्छलमलिः समालम्बते ।। १२ ।।

२. शेषनागः. १. गहायाम.