पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसरत्नहारः। विष्णोश्चरणारविन्दनखेषु स्वीयं प्रतिबिम्बं निरीक्ष्य दशावतारादप्यस्माद्विष्णोः स्वाधिक्यं मन्यमाना लक्ष्मीर्विदुषां सुखाय आ साकल्येन स्ताद्भवतु । विष्णोः पादसेवनं कुर्वाणा लक्ष्मीः पादनखेषु दशसु स्वीयं प्रतिबिम्बमीक्षमाणा । एकादशमात्मानं ज्ञात्वा विष्णोराधिक्यं मन्यमानेति भावः । स्त्रीखभावादियत्येव धीः समुत्पन्ना न साम्यपर्यन्तम् । यद्वा भगवतां तिर्यगादिषु योनिषु जन्म विडम्बयता दशावतारता संपादिता । मया तु वक्षस्थलस्थितयैव स्वरूपादप्रच्युतया चेति स्वाधिक्यं मन्यमानेति भावः ।। उद्भथ्यते सर्व विचक्षणानां प्रीत्यै मयायं रसरत्नहारः । गुणैरुपेतोऽखिललब्धवर्णकण्ठस्थितः स्याद्विदितो दिगन्ते ॥ २ ॥ सर्वविचक्षणानां प्रीत्यै मयायं रसरत्नहार उद्भथ्यते । गुणैरुपेतः । अखिललब्धवर्णक- ण्ठस्थितो दिगन्ते विदितः स्यात् । आशीरलंकार । 'आशीर्नामाभिलषिते वस्तुन्याशं- सनं यथा' इति दण्डी ॥ स्यात्स्थायिभावोऽत्र रसो विभावैस्तथानुभावैर्व्यभिचारिभिश्च । आरोप्यमाणः क्रमशः प्रकर्षं यथोचितैः सात्त्विकसंयुतैश्च ॥ ३ ॥ स्थायी चासौ भावश्च स्थायिभावः । 'भावो विकाश्चित्ते स्यान्निर्विकल्पे य आदिमः' इति । अमरसिंहोऽपि 'विकारो मानसो भावः' इति । विभावैरनुभावैर्व्यभिचारिभिर्यथा- योग्यैः सात्त्विकैश्च संयुतैः क्रमशः प्रकर्षमारोप्यमाणो रसः स्यात् । तथा च भरतसूत्रम्--- 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति । 'विभावैरनुभावैश्च सात्त्विकैय॑भि- चारिभिः । आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ॥' इति । वक्ष्यमाण स्वभा- वैर्विभावानुभावव्यभिचारिसात्त्विकैः काव्योपात्तैरभिनयोपदर्शितैर्वा श्रोतृप्रेक्षकाणामन्त- र्विपरिवर्तमानो रत्यादिर्वक्ष्यमाणलक्षणः स्थायी स्वााद्गोचरतां नीयमानो रसः । तेन रसिकाः सामाजिकाः । काव्यं तु तथाविधानन्दसंविदुन्नीलनहेतुभावेन रसवत् । 'आयु- र्घृतम्' इत्यादि व्यपदेशवत् । स्थायिलक्षणं दशरूपके-विरुद्धैरविरुद्धैर्वा भावैर्विंच्छिद्यते न यः। आत्मभावं नयत्यन्यान्स स्थायी लवणाकरः ॥ इति । यदुक्तम्-'विरुद्धा अविरुद्धा वा यं तिरोधातुमक्षमाः । आनन्दाङ्कुर कन्दोऽसौ भावः स्थायिपदास्पदम् ॥ इति । तटस्थ उद्दीपयते रसं य उद्दीपनाख्यः स भवेद्विभावः । रसस्य कार्यं ह्यनुभावसंझं ज्ञेयाः सहाया व्यभिचारिणोऽत्र ॥ ४ ॥ "अनुभावो विकारस्तु भावसंसूचनात्मकः ।' स्थायिभावाननुभावयन्तः सामाजिका- न्भ्रूक्षेपकटाक्षादयो रसपोषकारिणोऽनुभावा व्यभिचारिणः । 'विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः । स्थायिन्युन्मग्ननिर्मग्नाः कल्लोला इव वारिधौ ॥ यथा वारिधौ सत्येव कल्लोला उद्भवन्ति विलीयन्ते च तद्वदेव रत्यादौ स्थायिनि सत्येवाविर्भावतिरोभा- १. 'उद्दीपनाख्योऽय' क.