पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
काव्यमाला


कुङ्कुमरुचिपिङ्गमसृक्पङ्किलमुण्डालिमण्डितं मातः ।
जयति तव रूपभेदं [१]जपपटपुस्तकवराभयानकरम् ॥ १३ ॥
[२]नकमणिकलितभूषां कालायसकलहायमानकान्तिजालाम् ।
कामाक्षि शीलये वा कपालशूलाभिरामकरकमलाम् ॥ ९४ ॥
लोहिति[३]मपुञ्जमध्ये मोहितभुवनं मुदा निरीक्षन्ते।
वदनं तव कुचयुगलं काञ्चीसीमां च के[४]पि कामाक्षि ॥ ९५ ॥
[५] जलधिद्विगुणितहुतबहदशदिनेशकलाश्विनेयदलैः ।
नलिनैर्महेशि गच्छसि [६]सर्वोत्तमं त्वं करन्ध्रवृतनलिनम् ॥ ९६ ॥
सकृतदेशिकचरणा सबीजनिर्बीजयोगनिश्रेण्या:
अपवर्गसौधवलभीमारोहन्त्यम्ब केऽपि तव कृपया ॥ ९७ ॥
अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहंते।
चिन्तितसंता[७]नकला संततमपि संतनुष्व महिमानम् ॥ ९८॥
जय जय जगदम्ब शिव जय जय कामाक्षि जयजयाद्रिसुते ।
जय जय महेशदयिते जय जय चिद्गगनकौमुदीघारे ॥ ९९ ॥
[८]र्याशतक भक्त्या पठतामायोकटाक्षेण।
निःसरति बदनकमलाद्वाणी पीयूषधोरणी दिव्या ॥ १०० ॥
इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यामार्थाशतक चतुर्थम्

स्तुतिशतकम् ।

पाण्डित्यं परमेश्वरि स्तुतिविधौ नैचाश्रयन्ते गिरां
 वैरञ्चान्यपि गुम्फनानि विगलद्गर्वाणि शर्वाणि ते।



.

  1. जपवद इति घ-पाठः
  2. सर्वेषु पुस्तकेष्वमेव छन्दोभङ्गयुक्तः पाठः
  3. 'कुञ्जमध्ये इति ग--पाठः
  4. "किमपि' इति क-ख-ग पाठः
  5. इयमार्यापि च्छन्दोभङ्गदूषितैवः
  6. सर्वोत्तर इति घ-पाठः
  7. संतानवता इति ध-पाठः
  8. हयमायर्या च पुस्तके नास्ति.