पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
पञ्चशती।


जनानामानन्दं जननि जनयन्तं प्रणमतां
 त्वदीयं कामाक्षि प्रतिदिनमहं नौमि विमलम् ॥ १००॥
इदं यः कामाक्ष्याश्चरणनलिनस्तोत्रशतकं
 जपेन्नित्यं भक्त्तया निखिलजगदाह्लादजनकम्
स विश्वेषां बन्धः सकलककविलोकैकतिलक-
 श्चिरं भुक्त्वा भोगान्परिणमति चिद्रूपकलया ॥ १०१ ॥

इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां पादारविन्दशतकं तृतीयम् ।


आर्याशतकम्

कारणपरचिद्रूपा काञ्चीपुरसीम्नि कामपीठगता।
काचन विहरति करुणा काश्मीरस्तबककोमलाङ्गलता ॥ १ ॥
कंच न का़ञ्चीतिलकं करधृतकोदण्डबाणसृणिपाशम् ।
कठिनस्तनभरनम्रं, कैवल्यानन्दकन्दमवलम्बे ॥ २ ॥
चिन्तितफलपरिपोषणचिन्तामणिरेव काञिचिनिलया मे ।
चिस्तरसुचरितसुलभा चितं शिशिरयतु चित्सुधाधारा ॥ ३ ॥
परतन्त्रा वयमनया पङ्कजसब्रह्मचारिलोचनया ।
परया काञ्चीपुरया पर्वतपर्यायपीनकुचभरया ॥ ४ ॥
ऐश्वर्यमिन्दुमौलेरैकात्म्यप्रकृति काञ्चिमध्यगतम् ।
ऐन्दकिशोरशेखरमैदंपर्यं कास्ति निगमानाम् ॥ ५ ॥
तुङ्गाभिरामकुभरशृङ्गारितमाश्रयामि काञ्चिगतम् ।
गङ्गाधरपरतन्त्रं शृङ्गाराद्वैततनसिद्धान्तम् ॥ ६ ॥
मधुरधनुषा महीधरजनुषाः नन्दामि सुरभिबाणजुषा ।
चिद्वपुषा काञ्चिपुरे केलिजुषा बन्धुजीवकान्तिमुषा ॥ ७ ॥