पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
पञ्चशती


निर्यान्ती बदनारविन्दकुहरान्निर्धूतजाड्या नृणां
 श्रीकामाक्षि तव स्मितद्युतिमयी चित्रीयते चन्द्रिका ॥ ४८ ॥
कुण्ठीकुर्युरमी कुबोधषटनामस्मन्म[१]नोमाथिनी
 श्रीकामाक्षि शिवकरास्तव शिवे श्रीमन्दहासाङ्कुराः
ये तन्वन्ति निरन्तरं तरुणिमस्तम्बेरमग्रामणी-
 कुम्भद्वन्द्वविडम्बिनि स्तनतटे मुक्ताकुथाडम्बरम् ॥ ४९ ॥
प्रेङ्खन्तः शरदम्बुदा इव शनैः प्रेमानिलैः प्रेरिता
 मज्जन्तो मदनारिकण्ठसुषमासिन्धौ मुहुर्मन्थरम् ।
श्रीकामाक्षि तव स्मितांशुनिकराः श्यामायमानश्रियो
 नीलाम्भोधरनैपुणीं तत इतो निर्निद्रवन्त्यञ्जसा ॥ ५० ॥
व्यापारं चतुराननैकविहतौ व्याकुर्वती कुर्वती
 रुद्राक्षग्रहणं करेण सततं वागूर्मिकल्लोलिता
उत्फुल्लं धवलारविन्दमधरीकृत्य स्फुरन्ती सदा
 श्रीकामाक्षि सरस्वती विजयते त्वन्मन्दहासप्रभा ॥ ५१ ।।
कर्पूरद्युतितिरस्करेंण महसा कल्माषवत्याननं
 श्रीकाञ्चीपुरनायिके पतिरिव श्रीमन्दहासोऽपि ते।
आलिङ्गत्यतिपीवरां स्तनतटीं बिम्बाधरं चुम्बति
 प्रौढ़ं रागभरं व्यनक्ति मनसो धैर्यं धुनीतेतराम् ॥ ५२ ॥
वैशयेन च विश्वतापहरणक्रीडापटीयस्तया :
 पाण्डित्येन पचेलिमेन जगतां नेत्रोत्सवोत्पादने
कामाक्षि सितकन्दलैस्तव तुलामारोढुमुद्योगिनी
 ज्योत्स्नासौ जलराशिपोषणतया दूष्यां प्रपन्ना दशाम् ॥ ५३॥


  1. 'मनोमधिनी' इति क-ख-पाठः,