प्रौढीकरोति विदुषां नवसूक्तिधाटी-
चूताटवीषु बुधकोकिललाल्यमानम् ।
माध्वीरसं परिमलं च निरर्गलं ते
कामाक्षि वीक्षणविलासबसन्तलक्ष्मी: ॥ ८९ ॥
कूलंकषं वितनुते करुणाम्बुवर्षी
सारस्वतं सुकृतिन: सुलभं प्रवाहम् ।
तुच्छीकरोति यमुनाम्बुतरङ्गमङ्की
कामाक्षि किं तव कटाक्षमहाम्बुवाहः ॥ ९० ॥
जागर्ति देवि करुणा [१]शुकसुन्दरी ते
ताटङ्करत्नरुचिदाडिमखण्डशोणे
कामाक्षि निर्भरकटाक्षमरीचिपुञ्ज-
माहेन्द्रनीलमणिपञ्जरमध्यभागे ॥ ९१ ॥
कामाक्षि सत्कुवलयस्य सगोत्रभावा-
दाक्रामति श्रुतिमसौ तव दृष्टिपातः ।
किं च स्फुटं कुटिलतां प्रकटीकरोति
भूवल्लरीपरिचितस्य फलं किमेतत् ॥ ९२ ॥
एषा तवाक्षिसुषमा विषमायुधस्य
नाराचवर्षलहरी नगराजकन्ये ।
शङ्के करोति शतधा हृदि धैर्यमुद्रां
श्रीकामकोटि युदसौ शिशिरांशुमौलै: ॥ ९३ ॥
बाणेन पुष्पश्चनुष: परिकल्प्यमान-
त्राणेन भक्तमनसां करुणाकरेण।