पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३३
कलिविढम्बनम् ।


उच्चैरु[१]द्धोध्य जेतव्य मध्यस्थश्चेदपण्डितः ।
 पण्डितो यदि तत्रैव पक्षपातोऽधिरोप्यताम् ॥ ३॥
लामो हेतुर्वने साध्यं दृष्टान्तस्तु पुरोहितः ।
 अस्मोकों निगमनमनुमानेष्वयं विधिः ॥ ४ ॥
[२] अलभ्यं लप्स्यमानेन तत्त्वं जिज्ञासुना चिरम् ।
 जिगीषुणा ह्वियं त्यक्त्वा कार्यः कोलाहलो महान् ॥ ५ ॥
पाठनम्रन्थनिर्माण प्रतिष्ठा तावदाप्यते ।
 [३] वं च तथ्यव्युत्पचिरायुषोऽन्ते भवेन्न वा ॥ ६ ॥
स्तोतारः के भविष्यन्ति मूर्खस्य जगतीतले ।
 न तौति चेत्खयं च वं कदा तस्यास्तु नितिः ॥ ७ ॥
वाच्यता समयोऽतीतः स्पष्टमने भविष्यति
 इति पाठयतां अन्धे काठिन्यं कुन व[४] र्तते ॥ ८ ॥
अगतित्वमतिश्रद्धा ज्ञानाभासेन तृसता ।
 जयः शिष्यगुणा लेते मूर्खाचार्थस्य [५] भावजाः ॥ ९ ॥
यदि न छापि विद्यायां सर्वथा कमते मतिः
  मात्रिकास्तु भविष्यामो योगिनो यतयोऽपि वा ॥ १० ॥
 [६]अविलम्बे कृत्यसिद्धौ मात्रिकैराप्यते यशः ।
 बिलम्बे कर्मबाहुल्यं विख्याप्यावाच्यते धनम् ॥ ११ ॥
सुखं सुखिषु [७]दुःखं च जीवन दुःखशालिषु ।
 अनुग्रहायते येषां ते धन्याः खलु मात्रिकाः ॥ १२ ॥


  1. उद्बुध्य' इति पाठ:
  2. 'अभ्यास्यं लप्स्यमानेन' इति, अलभ्यं लज्जमानेन' इति च पाठः
  3. एवं सतस्तुः इति पाठः
  4. 'वर्तताम्' इति पाठ्ः
  5. 'भारवृतः' इति पाठः
  6. 'अविलम्बन संतिद्धौ इति पाठः
  7. 'दुःखेऽपि इंति पाठः