पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०७
अन्योक्तिशतकम्


को जानातु कुमुद्वतीपतिरसौ पीत्वा भृशं वारुणीं
 हा हा हन्त घनान्धकारनिकरैरावेष्टितो वर्तते ॥ ३२ ॥
ज्योत्स्नाभिर्भुवनं तनोषि विमलं पीयूषगर्भैः करै-
 रामोद कुमुदे दधासि बहुशः संजीवयस्यौषधीः
सर्वं तत्सुखदं परं तु नितरामेतेन दूयामहे
 नीहारैः कवलीकरोषि लवलीवृन्दानि शीतद्युते ॥ ३३ ॥
सानन्दं धनगह्वराणि सहसा संगाहसे निर्भरं
 भूयः सौरभजातमध्यनुदिनं गृह्णासि यत्तद्वरम् ।
किं तु श्रीयुतगन्धवाह भवतो नो युक्तमेतन्मना-
 ग्यत्त्वं तत्र करोषि नैव सदसद्वयत्तेर्वेिवेकक्रियाम् ॥ ३४॥
शुष्काः संप्रति निम्नगास्तत इतो नालोक्यते जीवनं
 भूयः कापि न वापिकापि नितरां जाताविलं पल्वलम्
ग्रीष्मोऽयं समुपागतोऽस्ति बहुशो वाचालतां मुञ्च रे
 मन्द संचल मेकशवि समभूःकालः करालो महान् ॥३५॥
एषा सीदति सुन्दराम्बुजवनी गुञ्जद्विरेफाङ्किता
 चच्चत्केसरनिर्यंदुग्रबहलव्यामोदमेदस्विनी ।
स्फारोतुङ्गकरीन्द्रदुर्वहकरप्रौढाभिधातैः परं
 विध्वस्ता परितो विभाति पुरतो विभ्रष्टपत्राम्बरा ॥ ३६॥
प्रोन्मीलत्सुरनिम्नगापरिपतद्विचीचयव्याह्रत्त-
 ध्याधूतानिलसंचलजलमिलद्वात्रोऽप्यसौ षट्पदः
स्मृत्वा हन्त दुरन्तकेतकशिखासंपातसंपादित-
 प्रोत्तुङ्गाङ्गविकारभारमधुना नो रन्तुमुत्कण्ठते ॥ ३७ ॥
हन्तासीत्परितो नवीनजलदप्रोत्तुङ्गधाराजलैः
 पूर्णानेकसहस्रपङ्कजदलैः कीर्णा नदीयं पुरा ।