एतस्मिन्समुपागतो गजपतिजींवत्तदा निर्भरं
धाराभिर्धरणीतलं. यदि मनान्धाराधरः सिञ्चति ॥ ८ ॥
यावत्पङ्कजकोरकान्विकसयश्रीमानसौ भानुमा-
न्नोदेति प्रसभं तमांसि विदलन्सानन्दमुच्चैस्तराम्
ताबद्धोरधनान्धकारमिलितो झिल्लीरवाह्लादितो
विधुत्पुञ्जविजृम्भितोऽम्बरतले खद्योत विद्योतय ॥ ९ ॥
फुल्लकैरवकोषनिर्गतसुधासंसक्तभृङ्गाना-
मञ्जुध्यानधुरीणशीतकिरणे जागर्ति मुग्धाम्बरे ।
मन्येऽहं निबिडान्धकारपटलीसंलीनसर्वाकृतेः।
खद्योतस्य हतप्रमस्य कियती शक्तिः समुन्मीलति ॥१०॥
स्वच्छन्दं नवमालिकासु विहर प्रेम्णारविन्दे पुनः
कुन्दे चापि तथा द्विरेक कुमुदेऽथानन्दमडगीकुरु ।
किं त्वेतस्य कदापि केतकतरोर्मा गाः समक्षं यतो,
धूलीभिर्धनकण्टकैश्च नितरां संदर्धितो वर्तते ॥ ११ ॥
नासौ पश्यति मालतीं नहि मनाक्प्रेमाणमालम्बते
चञ्चञ्चम्पककोरकेषु कुरुते मोदं न मल्लीकुले.
स्मारं स्मारमुदारकेसरलतां नालोकते. पद्मिनीं
"क्षामः किं तु मधुनतोऽयमधुना गुञ्ज मुहुर्भ्राम्यति ॥१२॥
नैवालोकि सरोजिनी नहि मनाग्गुञ्जारवैस्तोषिता
जातिः किं च गलरमरन्दमधुना नालिङ्गिता मालती
चित्रं किं तु मधुव्रतेन सहसा संपादिता सांप्रतं
भिन्ना रीतिरियं लवङ्गमुकुलान्यालोक्य मन्यामहे ॥१३॥
कोपं मा कुरु कुन्दवल्लि सहसा मा दैन्यमङ्गीकुरु
स्थाता कत्यपि वासराणि विदितानन्दो मिलिन्दस्त्वयि ।