पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जिनशतकम् । इन्द्रैर्विद्राणनिद्रं श्रितविधि विबुधैः सार्थक ऋक्षनाथैः सिद्धैः साध्यार्थसिद्ध्यै धुतदिति दितिजैः साधुभिः साधितार्थम् । गन्धर्वैर्गीतगर्भं कृतकरमुकुलैः श्रूयमाणानणीयो जैनी गौर्गौरवं वोऽतनुभुवनकुटीकोटरान्तःकरोतु ॥ २ ॥ या मन्दारैरशोकैः प्रविकचसुमनःशोभितैर्भिक्षुवृक्षै- स्तुङ्गैर्नीरोगमानैः सततमुपचिता भारती वैतरागी । खच्छायाच्छिन्नतापा विधितशुभफलालंकृतारामलेखा- तुल्या कल्याणमाल्यैर्बहुभिरिह तनूर्भूषयत्वाशु सा वः ॥ ३ ॥ यूथैर्या संयतानां सुदृढनियमनान्मोक्षमाकाङ्क्षमाणै- र्गुप्तैः संसृत्यटव्याश्रयणगमनतः संश्रितत्वादितीह । कारागारानुकाराप्यघनतरतमा निर्भया भ्रष्टबन्धा साधीयोधीधनर्द्धेरतिसमधिकतां सा क्रियात्सिद्धगीर्वः ॥४॥ संसारोदन्वदम्भस्यमितिमृतिमहोर्मिण्यगण्योद्भवौर्व- द्युद्भीभे लोमकुम्भीनसविषमतले मज्जतो जन्तुराशीन् । प्रत्यप्रान्तप्रथिम्नि स्मरमकरवति ब्राह्म्यजिह्मखरूपा निर्व्याजं नाव्यते या यतिपतिगदिता सा हताद्वो द्विषन्तम् ॥५॥ नाभीष्टं विष्टपान्तः प्रति चरमचरं प्राणिनं प्राणितव्या- दन्यद्वस्त्वित्यवेत्य स्खमिव तदपि भो रक्षता क्षुद्रभावाः । भद्रं भोक्तं विमुक्त्यां यदि मतिरिति याकर्ण्यते कर्णरन्तध्रै: सा श्रीयोगीन्द्रगीर्वः प्रबलयतु बलं कालमल्लं विजेतुम् ॥६॥ द्रव्यादेशेन नित्यं यदितरदपि तत्पर्ययादेशतोऽस्मि- न्वस्त्वेवं यैकमेव प्रकटयति नयद्वन्द्वतो द्विप्रकारम् । १. साध्यस्यार्थस्य सिचै धुता दितिः खण्डनं यत्र. २. मन्दं भारं अरिसमूहो येषाम्. ३. नीरं पानीयं तस्यागमः प्राप्तिस्तेनानाः प्राणा येषां तैः; भिक्षुपक्षे तु रागमा- नाभ्यां रहितैः. ४. उपवनराजीसमाना. ५. संयतास्तपखिनो बद्धाच. ६. अमितयो मृतयो मरणान्येव महान्तस्वरमा यत्र. ७. नौरिवाचरति. ८.या वागस्सिमगति एकमेष वस्तु द्विप्रकार द्विमेदं प्रकटयति प्रतिपादयति । कुतः । नयद्वन्द्वं नययुग्म व्यास्तिकनयः पर्यायाखिकनयश्च तस्मात् । एवमित्यनेन प्रकारेण । अन्सुदादिवस्तु द्रव्यादेशनयापेक्षया निलं तत्पर्ययादेशत इतरदनित्यम्.