स्यैव प्राधान्ये शृङ्गारेऽङ्गतामुपगते वक्तुर्बोधिसत्त्वस्यान्तर्गतगाढवैराग्यवास-
नाधिवासितचेतसः कुत्साहजुगुप्सया नितम्बिनीरतिविडम्बनमौचित्यरुचिर-
तामादधाति । यद्यप्यत्र महावाक्ये शान्तस्यैव प्राधान्यं तथाप्युदाहरणश्लोक-
वाक्ये बीभत्सस्यैव ॥
वीरकरुणयोर्यथा मम मुनिमतमीमांसायाम्-
'गाण्डीवस्रुदमार्जनप्रणयिनः स्नातस्य बाष्पाम्बुभि-
श्चण्डं खाण्डवपावकादपि परं शोकानलं बिभ्रतः ।
जिष्णोनूतनयौवनोदयदिनच्छिन्नाभिमन्योश्चिरं
हा वत्सेति बभूव सैन्ववववारब्धाभिचारे जपः ॥'
अत्र निगर्तसङ्घामगतस्य गाण्डीवधन्वनः शत्रुभिर्नवयौवनोदयसमयनि- हततनयस्य कार्मुकस्त्रुवमुन्मार्जयतः प्रसरदश्रुतातस्य शोकाग्निमुद्वहतश्चिरं हा पुत्रेति जयद्रथवधारव्याभिचारे जपो बभूवेति यदुषन्यस्तं तेनारिक्षये दीक्षासमुचितव्रतवर्णनया शोकामेश्चण्डत्वेन खाण्डवपदोदीरणेन वीररसस्या- ङ्गिनः सहसैवागन्तुके करुणरसे प्रज्वलिते सैन्धववधारब्धाभिचाराभिधानेन पर्यन्ते शौर्यनिर्बाहेण परममौचित्यमुज्जृम्भते ।। शान्तशृङ्गारकरुणबीभत्सानो यथा मम तत्रैव-
'तीक्ष्णान्तस्त्रीकटाक्षक्षतहृदयतया व्यक्तसंसक्तरक्ताः
क्रोधादिक्रूररोगबणगणगणनानीततीव्रव्यथार्ताः ।
स्नेहक्लेदातिलग्नैः कृमिभिरिव सुतैः स्वाङ्गजैर्भक्ष्यमाणाः
संसारक्लेशशय्यानिपतिततनवः पश्य सीदन्ति मन्दाः ॥'
अत्र मुख्यस्याङ्गिनः शान्तरसस्यैवोद्दीपने कारणीभूतास्तीक्ष्णान्तस्त्री- कटाक्षक्षतहृदयव्यथार्तस्नेहक्लेदातिलग्नकृमितुल्यतनयादिपदोपादानेन शृङ्गार- करुणबीमत्साः शान्तमुखप्रेक्षिणः संलीनतया स्तिमितवृत्तयो भृत्या इव परममौचित्यं दर्शयन्ति ॥ रससंकरस्यानौचित्यमुद्भावयितुमाह । शृङ्गारशान्तयोर्यथामरकस्य-
'गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त्वरा
द्वित्राण्येव पदानि तिष्ठतु भवान्पश्यामि यावन्मुखम् ।