पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अन्यापदेशशतकम् चेदङ्गीक्रियते न मत्करिणा भृङ्गीयुवा गौरवा- द्भूयादस्य गुणालयस्य तदये चित्तव्यथा किं वृथा । सौरभ्यस्रवनिर्झरभ्रमदलिभ्राजत्प्रसूनप्रभा- स्तास्ताः सन्ति लवङ्गिकाप्रभृतयश्चेतोनुदे चेल्लताः ॥ १०५ ॥ करटिकठिनदन्तोल्लेखसंकर्षिताया- मविरलघनवारासारसेकाप्लतायाम् । अपि सुभगमुहूर्ते यत्नतो बीजमुप्तं. गिरिशिखरशिलायां रोहते किं कदापि ॥ १०६ ।। एतस्यां वनसीम्नि यद्यपि वसत्युग्रोऽपि कण्ठीरवो निःशङ्कं करिशाव संचर तथाप्याकर्ण्य वार्तामिमाम् । अन्ये ते करिणो मदोत्कटकटस्थानभ्रमच्छ्वापद- श्रेणीगुञ्जितरञ्जितेषु हरयो येषु महारप्रदाः ॥ १०७ ॥ रे रे शूकरयूथनाथ महता तारुण्यदर्पोष्मणा दन्ताभ्यामिह पातनाय यतसे शालद्रुमस्यास्य किम् । जग्मुर्यत्र कठोरपर्वतशिलातुल्यत्वचि प्रांशवो दन्ता निष्ठुरवज्रकोटिकठिना दिग्दन्तिनां कुष्ठताम् ।। १.०८ ॥ लेभे यं शुभदा तयोभिरमलैः श्रीपनानाभात्सुतं यद्देशो मिथिलाखिलावनितलालंकारचूडामणिः । तेनेदं मधुसूदनेन कविना विद्यावता निर्मितं श्लोकानां शतकं मुदे सुकृतिनामन्यापदेशाह्वयम् ॥ १०९ ।। निरवद्यमद्य शतमेतदतिप्रकटार्थवर्णपदसंवलितम् । दुज(उचि)तीकुलाम्बुजवनीरविणा मधुसूदनेन कविना रचितम् ॥ ११०॥ इति मैथिलमधुसूदनकृतमन्यापदेशशतकं समातम् । (New Delhi