पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला ततसुसुर रसासारर स्वस्व सासा- ववननररसासावव न्यन्यसासा ।। १०६।। जयसि जलमनन्तं नन्दनं चाम्बुधेर्वा नवमनमत्व धृत्वा देवदेवेशभृत्यः । जयसि जनमनन्तं नन्दयश्चाविधेये अनवन नत कस्ते देवदेवेश भृत्यः ॥ १०७ ॥ आवली । युग्मम् । एकेन एकावली द्वितीयेन च्छन्नबन्धः ।। विविधधररसायां सर्वमयबहुरूपपर्वतभूमौ साभ सदीप्ते । भव्य उत्कृष्ट । त्यस वि- शेषेण असो गमनं यस्य । असाधूनां धुतं धूत हननं येन तथाविध । असादं समुद्ध- रणं ददाति तथाविध देवास्तेषां मध्ये त्वमेव ज्ञः । देवदेव इति । सासा । सह आसेन आस्थया वर्तते सासा सास्था । एवंविधा तनुर्जयति । ततसुसुराः [तताः] शो- भन देवा येन हेतुना तद्विध । रसायां भूमौ सारं सुवर्णवर्षणं राति । सासौ सप्राणे । स्वस्व आत्मधन । अवनेन रक्षणेन नरेषु विषये रसो यस्याः । असौ। इयमेवेत्यर्थः । अवनौ भूमौ अन्येषु दैत्येषु विषयेषु विरुद्धेषु सासासासा सास्था ॥ हे अनवम उत्कृष्ट, देवानां मध्ये देव, स त्वं जयसि । गङ्गाजलमनन्तं यथा अम्बुधेः समुद्रस्य नवं नन्दनं चन्द्रं धृत्वा धारयित्वा अनन्तं जनं च नन्दयन् । अविधेये दैत्यखार्थे अनवन अरक्षण, नत । सर्वे त्वां नताः । त्वं न कंचित् । इह हि तेनैव देवदेवेश. भृत्यः ॥ छत्रबन्धो मोमूत्रिकाबन्धश्च ॥ १०६॥ १० ॥ यमादजावद्भयमादिदेव वदेयमे यद्भवितार्थिनोडव । जनोऽर्थिताविद्भविता ततो हि हितोऽव तावद्भवजादमाय ॥ १०८ ॥ यमागताकृत्यमवेहि येन नयेन के सत्यसदासमेत । तमे सदासत्यनुते मिमान नमामि ते नुत्यकृतागमाय ।। १०९॥ यदा तमोपेततया ज्ञ चारुरुचाज्ञया तत्त्वमतोवधान । न धावतोऽमस्तनुमोनतेन नते नमोनुत्तममोक्षदाय ॥ ११ ॥ यताकृते पर्वतजे निवासे सेवा निजेतर्वशताकृतेन । म ते कृताशंस(मान)मदा मयाभिभिया सदा सर्वपते कृताय ।। १११ ॥ चतुर्भिः श्लोकः प्रस्तारः ।। हैं आदिदेव, मम यमाद्धयमस्ति । अजावच्छागलीवत् । दुर्बलवत्' दुर्बलस्वात् । अ- र्थिनत्वामर्थयन्ते इति भावः । हे अज, यतः रणन्तो जनः अर्थिताविद्भविता ममत्वं