काव्यमाला। जुह्वज्जिह्वाकृशानौ हरिचरितहविः स्तोत्रमन्त्रानुपाठे- स्तत्पादाम्भोरुहाभ्यां सततमपि नमस्कुर्महे निर्मलाभ्याम् ॥ ५१ ।। आ पादात्पादमारभ्य, आ च शीर्ष्ण: शिरःपर्यन्तमिदं पूर्ववर्णितं वैष्णवं वपुर्विष्णु- स्वरूपं ये निरस्ताखिलकलिकलुषे खचित्ते संततान्तःप्रमोद आनन्दभरितान्तःकरणः सन् नित्यं धत्ते निर्मलाभ्यां तत्पादाम्भोरुहाभ्यामपि वयं नमस्कुर्महे । किं कुर्वन् । स्तोत्रमन्त्रानुपाठैर्जिह्वाकृशानौ जिह्वारूपेऽग्नौ हरिचरितहविः सततं जुह्वत् । हरिचरि- तानि तत्स्तोत्राणि च सदा पठन्नित्यर्थः ।
इति भगवत्पादश्रीशंकराचार्यकृतं विष्णुपादादिकेशान्तवर्णनस्तोत्रं सटिप्पणं समाप्तम् ।
श्रीगुमानिकविप्रणीतम्
उपदेशशतकम् ।
त्रिषु देवेषु महान्तं भृगुर्बुभुत्सुः परीक्ष्य हरिमेकम् ।
मेनेऽधिकं महिम्ना सेव्यः सर्वोत्तमो विष्णुः ॥ १॥
रुक्माङ्गदः स्वपुत्रं निहत्य खङ्गेन मोहिनीवचसा ।
सत्यां ररक्ष वाचं न संकटेऽपि त्यजेद्धर्मम् ॥ २॥
निर्वासितो हितेप्सुर्विभीषणो रावणेन लङ्कायाः।
तन्नाशहेतुरासीन्नहि निजबन्धुर्विरोद्धव्यः ॥ ३ ॥
हृतराज्यदर्पसारं सुयोधनं निग्रहीतुमपि शक्ताः ।
प्रोषुर्वनेषु पार्था धीरः समयं प्रतीक्षेत ॥ ४ ॥
मणिहेतोरभिशप्तः कृष्णः सत्राजिताथ जाम्बवतः ।
जित्वा ददौ तमस्सै जनापवादाद्भजेद्धीतिम् ॥ ५ ॥
खाराज्यमश्नुवानः प्रकोप्य नहुषो मुनीनहिर्भूत्वा ।
न्यपतत्त्वरितमघस्तात्प्राप्तैश्वर्यो न दृप्तः स्यात् ॥ ६ ॥
सहधर्मिणी वनान्ताद्दशरथसूनो हार दशवक्त्रः ।
बन्धनमाप समुद्रो न दुर्जनस्यान्तिके निवसेत् ॥ ७ ॥
१. एतच्छतकोदाहरणकथास्तु प्रायः श्रीमद्भागवते हरिवंशे च वर्तन्ते. २. इयं
भृगुकथा श्रीमद्भागवते दशमस्कन्धे नवाशीतिमितेध्याये द्रष्टव्या. ३. 'खलः करोति
दुर्वृत्तं नूनं फलति साधुषु । दशाननोऽहरसीतां बन्धनं च महोदधेः ॥' इति प्राचीनः
श्लोकः,