प्रसादो यस्यायं नमदमितगीर्वाणमुकुट-
प्रसर्पज्योत्लाभिश्चरणतलपीठार्चितविधिः ।
हगम्भोज तत्ते गतिहसितमत्तेभगमने
वने लीनैर्दीनैः कथय कथमीयादिह तुलाम् ॥ ३४ ॥
दुरापा दुर्वृत्तैर्दुरितदमने दारणभरा
दयाद्री दीनानामुपरि दलदिन्दीवरनिभा ।
दहन्ती दारिद्रुमकुलमुदारद्रविणदा
त्वदीया दृष्टिर्मे जननि दुरदृष्टं दलयतु ॥ ३५ ॥
तव श्रोत्रे फुल्लोत्पलसकलसौभाग्यजयिनी
सदैव श्रीनारायणगुणगणोधप्रणयिनी ।
स्वैर्दीनां लीनामनिशमवघानातिशयिनी
ममाप्येतां वाचं जलधितनये गोचरयताम् ॥ ३६ ॥
प्रभाजालैः प्राभातिकदिनकराभापनयनं
तवेदं खेदं मे विघटयतु ताटङ्कयुगलम् ।
महिना यस्यायं प्रलयसमयेऽपि ऋतुभुजां
जगत्पायं पायं खपिति निरपायं तव पतिः ॥ ३७ ॥
निवासो मुक्तानां निविडतरनीलाम्बुदनिभ-
स्तवायं धम्मिल्लो विमलयतु मल्लोचनयुगम् ।
भृशं यस्मिन्कालागुरुबहुलसौरभ्यनिवहै:
पतन्ति श्रीभिक्षार्थिन इव मदान्धा मधुलिहः ॥ ३८ ॥
विलमौ ते पार्श्वद्वयपरिसरे मत्तकरिणी
करोनीतैरञ्चन्मणिकलशनुग्धास्वगलितैः ।
निषिञ्चन्तौ मुक्तामणिगणजयैस्त्वां जलकणै-
नमस्यामो दामोदरगृहिणि दारिद्यदलिताः ॥ ३९ ॥
अये मातर्लक्ष्मि त्वदरुणपदाम्भोजनिकटे
लुठन्तं बालं मामविरलगलवाष्पजटिलम् ।
पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/११६
पुटमेतत् सुपुष्टितम्