पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३
मनोदूतम् ।

 विना युद्धं पार्थानभिभवितुमिच्छन्तमचिरा-
 दिदं प्राह खैरं शकुनिकितवोऽन्धस्य तनयम् ।
 अयं ज्येष्ठः कुन्तीसुत इह यदि द्यूतसदने
 समाहुयानेयस्त्वरितमथ जेष्यामि तमहम् ।। ३७ ।।

विनेति । कितवोऽक्षदेवी । स्वादक्षदेवी कितवः इत्यसरः ॥

 समाहूतो द्यूते ध्रुवमिह समायास्यति पृथा-
 तनूजः संपश्यन्ननभिगमने धर्मविरहम् ।
 ततो राज्यं कोशं मणिवसुगजाश्चादि सकलं
 हरिष्याम्यद्धाहं तव हितकरोऽस्म्यक्षकुशलः ॥ ३८ ॥

सभाहत इति । धर्मस्य विरहं अभावं अधर्मम् । वसु धनम् । 'वसु स्वर्णे रत्ने वृद्ध्यौषवे धने' इति हैमः ॥

 इति श्रुत्वा दुर्योधननयतिर्मातुलमयो
 जगाद त्वं प्रज्ञानयनपुरतो ब्रूहि सकलम ।
 स मत्स्नेहाधीनो यदि तव वचः श्रोष्यति तदा
 करिष्यत्युद्योगं त्वयि निहितमारः कुरुपतिः ॥ ३९ ॥

इतीति । धृतराष्ट्रस्य पुरतस्त्वं बहीति मातुल जगादेति संबन्धः ॥

 तथोक्तेऽसौ दुर्योधननृपतिना साकमवनी-
 पतेः पार्श्वे गत्वा शकुनिरवदद्वाक्यकुशलः
 महाराज श्रीमन्कुरुकुलशिरोभूषणमणे
 न जानीषे पुत्रं कथमिह विवर्ण कृशतरम् ॥ ४० ॥

तथोक्ते इति । साकं सहेत्यर्थः । 'साकं सत्रा समं सह' इत्यमरः । बाक्यकुशल इत्यनेन यथार मनसि क्षोभः स्याद्विदुराद्युक्तं च न कुर्यातथोक्तवानिति सूच्यते । तच्च सभापर्वणि स्फुटम् ॥

 इति प्रज्ञाचक्षुः शकुनिवचसार्वेव सहसा-
 प्रतोदेन प्रायो द्रुत इव सशङ्कः समभवत् ।
 अपृच्छञ्चाप्येनं किमिति हरिणस्त्वं कृशतरो
 विवर्णः पुत्रासि स्कुटतरमथावेदय ममः ॥ ४१ ॥