गिरिधरविरचितं
गञ्जीफाखेलनम् ।
गिरो वरोऽसौ कवितां स्वपद्यैरितीरयत्यल्पितकष्टभारा ।
धर्मस्य बाला तवकस्त्वनेन रसोद्गमः श्रीपरितोषणाय ॥ १ ॥
गञ्जीफाभिधखेलनं तु दिवसे सूर्यान्निशीन्दोर्भवे-
त्पन्नाण्येककजातिजानि रविसंख्यान्याव्यचिन्नाणि च ।।
तज्जात्यष्टकमेवमनगदितं नामात्र यन्मोहरे-
त्यर्केशं किल रूपसंज्ञमिति यत्स्यात्तत्तु चन्द्रेश्वरम् ॥ २ ॥
चतुर्भिर्वा विद्भिस्त्रिभिरथ च खेलक्रमविधिः
सुखार्थे चित्तस्य क्रियत इह कालक्रमणकृत् ।
कथं कार्यः सोऽपि प्रथममथ पत्राणि सकला-
न्यधश्चित्राण्यात्र त्यजतु स तु कश्चिनरवरः ।। ३ ।।
एकत्र पत्राणि करोतु कश्चिन्नरोऽनुमानादपरोऽत्र भागम् ।
शेषं च भागं च तदग्रमर्त्यो विभज्य दत्ते निजदक्षमर्त्यात् ।। ४ ।।
यथा-
चित्रं त्वेकत एव पत्रनिकरे पत्राण्यधश्चित्रिता-
न्यज्ञात्वैव यथातथं मुहुरितश्चत्वारि तेभ्यो ददौ
चत्वारो यदि मानवा जिनमितानि स्युस्तदाथ जय-
श्वेत्स्युर्दन्तमितानि च प्रतिनरं पत्राणि सर्वत्र च ॥ ५ ॥
अथ पत्रविभागकर्तुनरस्य प्रशंसामाह-
सर्वत्र मार्ग समतां नयंस्त्वं प्रयासि चोचं पदमत्र मित्र ।
एवं तुलादण्डविवेकमेकस्त्वमेव धन्यः कुरुषे युगेऽस्मिन् ॥ ६॥
रजनीदिनयोर्दिवाकरः समभागो तुलयापि संगतः ।
रजनीमनुरञ्जयत्यतः किल नीचत्वमगाद्विभाकरः ॥ ७ ॥
अर्थ खेल:-
दिनेऽर्क परं पत्रमेकं गृहीत्वा प्रयातीन्दुरेवं निशि प्रायशोऽत्र ।
महान्तो यतो यत्र कुत्रापि कार्ये कमप्येकमादाय गच्छन्ति चान्यम् ॥ ८॥