दृश्यन्ते मणयः पुरः कतिपये व्योम्नि प्रकीर्णाः क्वचि -
द्दृष्टा मण्डनसंपदोऽपि भवता त्वद्वल्लभाः सुस्थिताः ॥ १०३ ।।
इति तपःसिद्धतरखरतराम्नायसोमवंशावतंसश्रीमाल्कुलतिलकसंघपालश्रीमद्देहडा-
त्मजविविधबरुदराजीविराजमानश्रीवनदराजांवरचिते शतकत्रये
शृङ्गारधनदाभिधानं प्रथम शतकं समाप्तम् ।
नीतिधनदाभिधानं द्वितीयं शतकम् ।
जिनवरपदपूजादत्तचित्तः सुवित्तः
खरतरमुनिशिक्षाधीतविश्वोपकारः
स जयति धनराजो देहलस्यैकवीरो
नयधनदमितीदं यस्य नाना चकास्ति ।
नीति म सदञ्जनं क्षितिभुजां सूक्ष्मार्थसंदर्शकं
सिद्धः कोऽपि रसोऽपरो जयमन सर्वायसां रञ्जकः ।
बारीवेन्द्रियमन्तवारणपश्चापल्यसंरोधिका
लक्ष्मीरक्षणयामिकः खलमनोदुष्टाहिबन्धौषधिः ॥ २ ॥
तारुण्यं प्रभुता धनं त्रयमिदं यत्रैकसंस्थं भवे-
त्तत्रास्ते न विवेकिता सहनयकैकतो दाधया(?) ।
नित्या नैपुणनिष्ठया प्रतिपदं हस्तावलम्बो न चे-
देतस्याः किल दीयते निजनिजः पन्थाश्च तेषां न वा ॥ ३ ॥
नीतिः संपदि भूषणं विपदि वा देवाद्विहन्तुं पुन-
र्दैवं सिद्धमहोद्यमा कृतधिया भन्देव संतोषकृत्
भूभृत्सद्म विहारकौतुकजुषो धात्रीव यस्याः श्रियो
धर्मस्यागमपद्धती रसवतां सन्मार्गदीपावलिः ॥ ४ ॥
कीर्तिश्रीव्यवहारसांधनतया पुंसां प्रधानं नयः
संदेहार्णवमजदीश्वरमनःसंतारणे सत्तरिः
मन्त्रस्थानमुदारताजतरणिः कामारिंदर्पापहा
चेतःसद्मनि सज्जनस्य रमते नानाविनोदास्पदम् ॥ ५ !!