पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

बन्दे तवाङ्घ्रिकमलं श्वशुरं पयोधै-
 स्तानं भुवश्च रघुपुंगवरेखया यत् ।
वज्रं बिभर्ति जगदार्तिगिर विभेतुं
 विद्यां नताय वित्तरेयमिति ध्वजं च ॥४४॥
शंभुः स्वयं निरदिशद्गिरिकन्यकायै
 यन्नाम राम तब नामसहस्रतुल्यम् ।
अर्थे भवन्तमपि तद्वहदेकमेव
 चित्रं ददाति गृणते चतुरः किलार्थान् ॥ ४५ ॥
षट् ते विधिप्रभृतिभिः समवेक्षितानि
 मन्त्राक्षराणि ऋषिभिर्मनुवंशकेतो।
एकेन यानि गुणितान्यपि मानसेन
 चित्रं नृणां त्रिदशतामुपलम्भयन्ति ।। ४६ ।।
सर्गस्थितिप्रलयकर्मसु चोदयन्ति
 माया गुणत्रयमयी जगतो भवन्तम् ।
ब्रह्मेति विष्णुरिति रुद्र इति वृथा ते
 नाम प्रभो दिशति चित्रमजन्मनोऽपि ॥ ४७ ।।
हंसोऽसि मानुसचरां महतां यतस्त्वं
 संभाव्यते किल ततस्तव पक्षपातः ।
मथ्येनमध्ययन चेद्रधुनन्दन स्या-
 जिष्णोरपि त्रिभुवने समवर्तता ते ॥ १८॥
लक्ष्मीकृतोऽजनि यथैव जलाशयाना-
 मेको रुषा"तथा कृपयापि कार्यः ।
अन्योऽपि कश्चिदिति चेदहमेचं वर्ते
 तादृग्विधास्तपनवंशमणे किमन्यैः ।। ४९ ।।
क्षन्तुं त्वमर्हसि रघूद्वह मेऽपराधा-
 न्सर्वे सहानुबधुरपि ते पुराणी

३. सत्वरजस्तमोगुणाः