पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनोदूतम् ।

स्थितस्य द्रौपद्याः परिजनयुतायाः सहसितं
वचः प्रज्ञानेत्रात्मज इति मनो विलयति ।। ८३ ॥

प्रतीहारेति । प्रतीहारस्य द्वारस्य भ्रान्त्या । स्त्री द्वार्द्वारं प्रतीहारः' इत्यमरः । भित्तिप्रदेशे गच्छतो द्वारभ्रान्त्या हतिरभूत् । अथ द्वारि पूर्ववद्विपरीतभ्रान्त्या भित्ति- रेवेयमिति स्थितस्यागच्छतः । प्रज्ञानेत्रस्यान्वस्यात्मज इति वचो दुःखबीजम् ।।

इमे सस्त्रीकाश्चेत्कुटिलहृदयाः पाण्डुतनयाः
परीहासं चक्रुर्विविधमदमत्ता बहुविधम् ।
प्रतीकारं कर्तुं यदि च न भवेयं क्षम इह
स्ययं धिङ्मे जन्म ध्रुवमनुचितं जीवनमपि ॥ ८४ ॥

इमे इति । प्रतीकारं प्रत्यपकारम् ॥

इति प्रज्ञाचक्षुर्निजतनयदुःखौघमखिलं
निपीय श्रोत्राभ्यां मनसि विदधे खेदमतुलम्
अबोचच्चाप्येन शममुपदिशन्वाक्यमनघं
स्थितिज्ञो लोकानामतिविशदबुद्धिर्धृतिपरः ॥ ८५ ॥

इतीति । अनर्घ शमप्रधानत्वान्निर्दोषम् ।। तदेवाह--

सुखं दुःखं दैवादुपनमति गच्छत्यपि परं
न धीरस्तत्र स्याद्व्यधित इह हृष्टोऽपि न भवेत् ।
ध्रुवं पश्यन्बुद्ध्या सततमनिवार्यं विधिशतै-
र्जगत्यां पर्यायागतमखिलसाधारणमपि ।। ८६ ॥

सुखमिति । भावानामागमापायिलाहुर्निवार्यत्वाच्च शमेनैव निवृत्तिरिति भावः ।।

यदा यस्माद्येन स्वयमिह विना यत्नमनघ-
स्वभाग्यात्संप्राप्तं यदतिबहु चाल्पं च सुधिया।
विधेयः संतोषो निजमनसि चेत्सौख्यमतुलं
न दुःखं तस्य स्यात्क्वचिदपि नः तापो न च रिपुः ॥ ८७ ॥

यदेति । खज्ञानकल्पिता एव शत्रुमित्रोदासीनाः । विवेकदृष्ट्या तु सर्वस्यात्मरूपत्वाब्रह्माद्वयत्वेन द्वितीयस्थाभावान्न भयशङ्कापि। द्वितीयाद्वै भयं भवति इति श्रुतेः । तस्मात्संतोषेणैव सुखं भवति नान्यथा यत्नशतैरिति भावः।।