पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२० काव्यमाला। ऋक्ष जनभयवशतो विज्ञाय सकम्बलं जारम् । परिषस्वजे कृशाङ्गीं रुदतीमथ जहास हलिकजनः ॥ ३७॥ ऋतुमभिगम्य वसन्ते पालाशं दरविकासकुसुमाग्रम् । दर्शयति सस्मितास्या निभृतं कौमारजाराय ॥ ३८॥ एतावदेव गुरुजनसमक्षमिन्दीवराक्षी सा । निजगाद ग्रहणस्य स्नानं गृह एवं दुःखिता तनयाम् ॥ ३९ ॥ एरण्डवीथिकान्तर्जारं गतमीक्ष्य हलिककन्या । तृणकर्तनत्वरामिषरङ्गिवने सा तदायासीत् ॥ ४० ॥ एतावतालमित्थं निगदन्तीं खिन्नसर्वाङ्गी। अवनतमुखी दिनान्ते सखीजनं हासयति सुभ्रुः ।। ४१ ॥ एतदिदं तत्कुसुमं गृहाण चरवर्णिनीत्युक्ता । यूना मिषेण नीता रभसात्कुञ्जोदरं सुतनुः ॥ ४२ ॥ एकक्रमात्प्रवृत्ता दूषणगणनाय तव सुभग सुभ्रूः । मयि मौनमञ्चति द्राग्गणनाभ्रंशे सलज्जहासाभूत् ।। ४३ ॥ ऐक्षवरसं हि मधुरं वदन्ति केचित्परेऽमृतं तु परम् । अर्हति न षोडशीमपि कलामवाप्तुं प्रियाधरसुधायाः ।। ४४ ॥ ऐन्दवमुदेतु बिम्ब निवृत्य यास्यामि नैजगृहम् । घनतरतमालवीथीपथेन संकेतमुपयामि ॥ ४५ ॥ ओमिति यत्प्रियदूतीं जगाद नतकन्धरं कुरङ्गाक्षी । प्रणवः स शीलखण्डननिगमारम्भस्य संकथितः ।।४६ ।। ओंकारः स्मरकेलेः स्वाहाकारो वियोगदुःखानाम् । उपगूहनहुंकारस्तस्याः करकङ्कणक्काणः ॥ ४७ ।। ओकसि पिपीलिकाभिः कृते वसत्यहिपतिः शीघ्रम् । किमसंभाव्यममुष्मिञ्जिह्मगतौ च द्विजिह्वे च ॥ ४८ ॥