पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारकलिकात्रिशती। देवः स पातु दितिजनिनायकनिधनैधिताधिकक्रोधः । लक्ष्मीवदनसुधाकरदर्शनसंजातसौम्यसद्भावः ॥ ३॥ योगान्तरं न योगे सत्येकस्मिन्भवति शशिशीर्षे । कृतपद्मासनरचने जयति(तरां) स्तब्धचरणार्या() ॥ ४॥ नाभीकमलनिवासश्चतुर्मुखश्चिन्तया मुग्धः । पुरुषायिते रमायाः संमीलितलोचनो विधिर्जयति ॥ ५॥ क्षीराम्बुधौ मुकुन्दं स्थितं समालोक्य शेषशय्यायाम् । तद्दक्षिणाक्षिमीलनलग्नकरा सा जयति लक्ष्मीः ॥ ६॥ लक्ष्मीपाणिच्छन्ने दक्षिणनयने भुरारातेः । आनन्दितः कुटुम्बी जयति विधिर्नाभिवास्तव्यः ॥ ७ ॥ लक्ष्मीमुखमालोकति भगवति सेर्ष्या वचोदेवी । ननु वदनान्निजवीणाक्वणनमिषाज्जयति हुंकृतिं ददती ॥ ८॥ वाल्मीकप्रभृतीनां चरणयुगं संततं हृदि भजामि । यद्वशतः पदबन्धे सामर्थ्यं जायतेऽसदादीनाम् ॥ ९ ॥ हृदि भावयामि सततं तातं श्रीसामराजमहम् । यत्कृतमक्षरगुम्फं कवयः कण्ठेपु हारमिव दधते ॥ १०॥ संपादितसुरसार्थव्यञ्जनपदबन्धदृष्टसद्भावम् । वाचस्पतिमिव काव्यं विबुधाः पश्यन्तु विनयमुखाः ॥ ११ ॥ उद्धृृतदोषा सगुणा युक्तैकावलिमुखैरलंकारैः । सरसा सुवृत्तवर्णा कविता वनितेव मानसं हरति ।। १२ ॥ सुजनः करोतु हृदये कृतिमेतां ब्राह्मणो यथा वेदम् । यदि दुर्जनोऽन्त्यज इव त्यजति तदा कैव हानिरस्माकम् ॥ १३ ॥ मुग्धामिव युबलोकाः सरसां शृङ्गारकलिकाख्याम् । कमलकलिकामिवालय एनां रसयन्तु रसिकजनाः ॥ १४ ॥