पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६४ काव्यमाला। कर्णोपान्ते पलितकपटात्सुष्टु विज्ञप्यमानं स्थानभ्रंशव्यथितजरसैकान्तमेकान्तकान्तम् । स्वामिंल्लोकानजरममरं स्थानकं प्राप्तुमर्ह- न्कुर्वन्भूमौ विहरसि मया स्थीयतां क्वाधुनेति ॥ ११३ ॥ स्फूर्जद्भाग्यान्कतिचन दृशा स्निग्धयालोकयन्तं कांश्चिच्चेषत्स्मितकलनया स्वायतीन्प्रीणयन्तम् । पूर्वोपात्तास्खलितसुकृतश्रेणिसौभाग्यभाजः कांश्चिन्मौलौ करघटनया लब्धसिद्धीन्सृजन्तम् ॥ ११ ॥ आशीर्दम्भान्नमदसुमतां हस्तविस्तारणेन हस्तन्यस्ताविव निजवशौ धर्मलाभौ ददानम् । कल्याणानां निधिमिव महावारपारं महिम्ना- माचाराणां भवनमवनावाकरं सत्क्रियाणाम् ॥ ११५॥ अर्हद्धर्मं तनुभृतमिवास्तोकलोकोपकृत्यै कैवल्यं वा विदितभुवनं पुंस्वरूपोयपन्नम् । प्रत्यक्षं वा सुकृतनिचयं शासनस्यार्हतस्य मूलं निःश्रेयसपदतरोर्जङ्गमं कल्पवृक्षम् ॥ ११६ ॥ कष्टव्रातं नतसुमनसां जापमौनप्रयुक्तै- र्घ्नन्तं मन्त्रैरिव पटुतरैर्हारिहुंकारनादैः । सम्यग्नामस्मरणशमिताशेषपापोपतापं लक्षोष्णांशुपतिभटजगव्द्यापि तेज:प्रतापम् ।। ११७ ।। धैर्येणातिप्रथितयशसा स्वर्णशैलं जयन्तं गां तीर्थेनातिशयगुरुणाम्भोनिधिं लज्जयन्तम् । सौन्दर्येणाप्रतिममहसा मन्मथं तर्जयन्तं चारित्राद्यैः सुविहितगुणैर्विश्वमावर्जयन्तम् ॥ ११८ ।।