पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अन्याः सर्वा अपि सकुशला दक्षजाः सन्ति पत्न्यः पञ्चार्चिः शं कलयति हृदानन्दनो नन्दनस्ते ॥ ११ ॥ यद्वायं ते स्फुटमनुचितो वार्तवार्तानुयोग- स्त्वय्यायत्तां जगति सकले जानतो मे सुखाप्तिम् । मन्तव्योऽयं तदापि सरसः नेहसाराञ्चितत्वा- त्स्वादीयः स्यात्कदशनमपि स्नेहधारोपसिक्तम् ॥ १२ ॥ क्वाहो शीतोषगतमतनु पाक्तनार्धं विदेह- क्षेत्र क्वायं चरमभरतक्षेत्रयाम्यार्धभागः । मागोंऽतीतः कथमयभियान्कोमलैः स्वच्छ पादैः प्रौढप्रौढैः शिखरिशिखरैर्दन्तुरीभूतदेशः ।। १३ ।। मार्गश्रान्तः क्षणमिह सुखं तिष्ठ विश्रामहेतो- रुतुङ्गेडस्मिशिखरिशिखरे दत्तपादावलम्बः । हृद्यः पद्माभिधवरसरः संभवस्त्वां समीरः सर्पन्नुचैः सुखयतु सखे केतकीगन्धबन्धुः ॥ १४ ॥ नत्वा सीमंधरजिनपतिं प्राप्तपुण्यप्रकर्षो भूयो नन्तुं त्रिभुवनगुरूं बाहुदेवं सहर्षः । मार्गे तीर्थप्रणतिविगलत्पापपङ्कः स्वमौला- वर्हच्चैत्याश्चित इति जगद्वन्द्य वन्दामहे त्वाम् ॥ १५ ॥ स्विन्नां तीव्रातपपरिचयात्तोयदस्तोयवृष्ट्या सिञ्चन्यद्वत्सुखयति कृषिं शोषकालोपपन्नः । प्रीर्ति तद्वत्प्रियसख मम प्रापिता चित्तवृत्तिं ...."तोत्पत्तौ रहसि भवता गच्छता बन्धुना द्राक् ।। १६॥ शान्ति नीते श्रम इति ततश्चेतसि स्वास्थ्यमाप्ते दत्वा कर्णावहितमनाः श्रोष्यसि प्रार्थनां मे।