पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विधगर्भस्तवः । 3.ke राजाप्युज्झति पोषितं वपुरिति ज्ञात्वा तनूमस्थिरां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ८३ ॥ धर्मेणोद्भटमारुतेन पयसो वृष्ट्या हिमेनर्तुषु क्लिश्यन्तेऽह्नि बुभुक्षया निशि तथा स्वायेन कामेन च । मर्त्याः खल्विति मर्त्यता मम पुनर्मा भूदितीच्छन्नहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ८४ ॥ कोऽहं प्राग्जननात्तनूपतनतः पश्चाद्भवेयं कथं कः प्राप्नोतु दिवं च्यवेत नरके को वेति चिन्तां बिना । आयुक्तः सततं निजोदरभृतावप्यात्मनः श्रेयसे तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ८५ ।। शास्त्राण्यप्यधिगत्य मत्सरभृतः कुत्सां मिथः कुर्वते वाञ्छन्तोऽन्यवधूर्वसन्ति विषयव्यावृत्तचित्ता इव । इत्थं चेत्सुधियोऽपि का मम कथा तदुर्गुणग्लानये तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ८६ ।। शुश्रूषा न पितुर्न मातुरपि नो गोब्राह्मणेष्वादरो नाचार्य न गुरौ न च स्थविरके विस्रम्भलेशोऽपि वा। येषां तेऽपि नरास्तरन्ति निरयं यत्र प्रपत्तिं गता- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ८७ ॥ स्वं गर्भे दधती न या सुखमगान्मासान्दशापि प्रसू- र्या स्तन्यार्पणदुग्धपायनमुखैर्यत्नैरपासीच्चिरम् । यत्तस्यै हितमेतदप्यकृतमित्यस्य क्षयायांहस- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ८८ ॥ सस्नेहं सदयं समस्कुरुत मां यो जातकर्मादिभि- र्व्यापारैः पितुरस्स किं कृतमभूत्पथ्यं परन्नोचितम् ।