पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आनन्दमन्दिरस्तोत्रम् । विद्यां चतुर्दशतयीं चतुरां चतस्र- श्चञ्चद्विचित्रनिगमान्रुचिरान्दधाना । कल्पद्रुमोदितलसहद्दलमञ्जुला सा लास्सं गिरां कलयताद्र्सना शिवायाः ॥ ५१ ।। भास्वद्विभाकरविभाभरभासुराभं भीमामुखं समभवद्भवमाप्रभावैः । भ्राजत्तदाशु तदलोकि भवेन दत्ता- अङ्गुष्ठ तदङ्कि चिबुकं तनुताच्छिवं नः ॥ ५२ ।। सत्कर्णभूषणमणिप्रविकीर्णवर्ण- श्रेणीसुवर्णकिरणालिवरेण्यवर्णा । श्रीमन्मधूकसुषमा गरिमाभिरामा कालीकपोलपटली तनुताच्छिवं नः ।। ५३ ।। कञ्जस्फुरञ्चपलखञ्जनयुग्ममञ्जु गुञ्जन्मिलेन्दमिलदं रुजमञ्जुलं यत् । श्रीमन्मसारमणिकान्तिनितान्तकान्तं काली सदीक्षणयुगं तनुताच्छिवं नः ॥५४॥ जानीमहे मदनदाहविधौ धनुर्य- तद्धसाशेषमभवत्तदिदं किमत्र । दुर्गाभ्रुवोर्जनिमुपेत्य जगज्जयाय जागर्ति तद्भुकुटियुग्ममिदं मुदे स्मात ॥ ५५ ॥ राहोर्भयादिव धृतार्धतनुः सितांशुः शीतांशुशेखररमालिकतामयासीत् । तत्रापि यन्मृगमदच्छलतो विभालि सोऽङ्कः शिवा तदलिकं तनुताध्छिवं नः ॥ १६ ॥