पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११८ काव्यमाला । सौवर्णसिंहासनसंस्थितानां सूरेन्दुवंशोद्भवपार्थिवानाम् । प्रकाशिते बन्दिजनैश्चरित्रे संचारिते चांगरुचारुधूपे ॥ ५६ ॥ आहारि हैमाचलसानुगानां यदामराणां क्षितिपैरभिख्या । संबोध्य सीतां विबुधेज्यबुद्धी राज्ञः पुरोधा गिरमित्यवादीत् ॥ ५७ ॥ अभूतपूर्वे भवतीमदभ्रबलोल्लसद्भूमिभुजां समाजे । वैदेहिगङ्गाधरधन्वभङ्क्त्रे दाता वरेण्याय वराय तातः ॥ ५८ ॥ इतीरयित्वा विरते द्विजेन्द्रे मृगेन्द्रवत्पर्वतशृङ्गतस्ते । निजासनेभ्यः सहसोदतिष्ठन्परामृशन्तः परिधोरुबाहून् ॥ ५९ ॥ लाभाय सुस्त्रैणशिरोमणिस्ते दर्पादहंपूर्विकथा कयापि । धराधिपा गाङ्गतरङ्गराजच्चूडामणेश्चापसमीपमापुः ॥ ६० ॥ ते वीक्ष्य चापं गुरु शंकरस्य न शंकरं सज्जविधानकाले । भृशं कराभ्यामपनेतुमीशाश्चतुर्दिगीशा अपि नावनीशाः ॥ ६१ ॥ केचिद्भुजाभ्यां भुजगेन्द्रभोगमहेन्द्रमातङ्गकरोपमाभ्याम् । उन्नेतुकामा जगृहुस्तदैशं धनुः पुनश्चालयितुं न शेकुः ॥ ६२ ॥ निःश्वासमिष्वासमवेत्य शैवं बालामबालाजमनोहरास्याम् । अखण्डितं भूमिभुजो व्यमुञ्चंस्ततस्त्वलब्ध्वा विधिविप्रलब्धाः ॥ ६३ ॥ हतौजसो निर्जितवैरिवर्णं निजान्भुजान्धिग्धिगिति ब्रुवन्तः । ततो नृपाः स्वानि निवेशनानि यथागतं जग्मुरवाङ्मुखास्ते ॥ ६४ ॥ अभग्नमग्निप्रतिमप्रभावैः कोदण्डमाखण्डलतुल्यवीर्यैः । निरीक्ष्य चिन्ताम्बुधिमग्नचित्तो जगाद वाचं मिथिलाधिनाथः ॥ ६५ ॥ चापो न कृष्टः किल राजकस्य शर्वस्य सर्वस्य च गर्वहारी । केनापि नाटङ्कि न चाप्यचालि निर्वीरमुर्वीतलमद्य जातम् ॥ ६६ ॥ न चक्षमे राक्षसलक्षनाथो गर्वस्य पाथोधिरहीनवाहुः । बाहूद्धृतस्थाणुधराधरेन्द्रस्तत्कैकसीसूनुरिदं वचोऽस्य ॥ ६७ ॥