पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सीतास्वयंवरकाव्यम् । ११५ यदङ्गणे विद्रुमभूमिसंस्थास्तद्रागसंसृष्टवलक्षभावाः । अवाकिरंश्चञ्चुपुटेन कीरा मुक्ता मुहुर्दाडिमबीजबुद्ध्या ॥ २३ ॥ निधाय यत्राजगवं स चापमिति क्षितीशोऽथ पणं बमाण । यो भङ्क्ष्यतीमं भुजवीर्यशाली स जानकीजानिरपूर्वमाली ॥ २४ ॥ (कुलकम्)

दूता दिगन्तेषु जगुस्तदासामितीशकोदण्डकखण्डकृद्यः । तस्मै नृपो दित्सति देवताभां कन्यां विनिद्राम्बुरुहायताक्षीम् ॥ २५ ॥ श्रुत्वा पणं पार्थिवपुङ्गवस्य निजं भुजावीर्यमखर्वगर्वाः । कन्यानिमित्तं बहु मन्यमाना दिग्भ्यः समाजग्मुरथो नरेन्द्राः ॥ २६ ॥ कलिङ्गबङ्गाङ्गतिलङ्गगौडपाञ्चालनेपालकमालवेशाः । सौवीरगन्धारकमत्स्यमद्रत्रिगर्तकानर्तविदर्भनाथाः ॥ २७ ॥ काम्बोजकर्णाटककामरूपकाश्मीरयुक्केरलकेकयानाम् । करूपसिन्धूत्कलसौभशाल्वपटच्चराणामधिपा युवानः ॥ २८ ॥ चीनान्ध्रलाटद्रविडाधिनाथा द्वीपाधिपास्तीर्णपयोधयोऽपि । रूपश्रिया न्यक्कृतपञ्चबाणाः प्रचण्डकोदण्डधरा धरेन्द्राः ॥ २९ ॥ प्रत्युज्जगामावनिपालचक्रं चक्राङ्कुशाम्भोरुहमत्स्यवज्रैः । महार्हचिह्नैरुपलक्षिताभ्यां पद्भ्यां नरेन्द्रोऽपचितिं चिकीर्षुः ॥ ३० ॥ विधाय तेषां विधिवन्नृपाणां यथाक्रमं शक्रपराक्रमाणाम् । अर्घ्यादिकं कृत्यमनर्घशीलः प्रावेशयत्तान्निजराजधानीम् ॥ ३१ ॥ रम्येषु हर्म्येषु सुरेन्द्रसद्मकल्पेष्वनल्पाद्भुतचित्रवत्सु । वासाय तान्वासक्तुल्यधामा समादिशच्छ्रीजनको जनेशः ॥ ३२ ॥ आधोरणा विश्रमयांबभूवुर्बाधो रणानामिह यैर्विसोढः । मतङ्गजानां प्रवरान्नृपाणां मतं मज्जानामिह ये विदन्ति ॥ ३३ ॥