पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७० काव्यमाला। सापि प्रीता समन्तात्पति मुहुरवलोक्याशु लब्धावकाशा वासोलेशेन हीनं गगनपथमथो यापयामास चन्द्रम् ॥ १९॥ अथ निभृतमवस्थिताः सुरेन्द्राः परिहसनाभिमुखाः सहस्ततालम् । वसनमुरुतरं समुत्क्षिपन्तो विविधतरां गिरमेवमूचिरे ते ॥ २० ॥ तव हन्त वियोगपीडितं जनमेनं प्रविहाय किं भवान् । गमनं विदधाति गृह्यतां वसनं चेति च केचिदूचिरे ।। २१ ॥ निहितं वसनं क्व तावकं रचयामोऽस्य गवेषणं वयम् । अथवा वसनं प्रगृह्यतामिदमेवेति च केचिदूचिरे ॥ २२ ॥ व्यसनं वसनापहारजं कथमेतद्भवतः समागतम् । त्वरितं च मदीयमंशुकं परिधेहीति च केचिदूचिरे ॥ २३ ॥ देवो नारायणोऽथ ज्वलनमुपगतं मन्दमन्दं बभाषे चन्द्रालोकाभ्युपायं कथयितुमधुना बुद्धिकौशल्यशाली । आनीतः स्वं समीपं स किल शशधरो लक्षितो देववृन्दै- स्तस्माद्याहीति याते तदनु च दहने देवदेवस्तिरोऽभूत् ॥२४॥ निन्दन्तः केचिदिन्दुं कतिचन दयितां पावकस्य क्षिपन्तः स्वाहानाथस्य जाड्यं महदिति च परे निर्विशङ्कं वदन्तः । चित्रं चित्रं चरित्रं सकलसुरपतेर्माधवस्येति भक्त्या वैकुण्ठं संस्तुवन्तो निजमथ विबुधा मन्दिरं भेजिरे ते॥२५॥ स्वाहासुधाकरं नाम प्रबन्धमतिकोमलम् । अकरोदचिरेणैव नारायणमहीसुरः ॥ २६॥ इति श्रीनारायणभट्टपादकृतः स्वाहासुधाकरः समाप्तः ।