पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीशतकम् । नीते निर्व्याजदीर्घां मघवति मघवद्वज्रलज्ज्जानिदाने निद्रां दागेव देवद्विषि 1मुषितरुषः संस्मरन्त्याः स्वभावम् । देव्या हरभ्यस्तिसृभ्यस्त्रय इव गलिता राशयो 2रक्तताया- स्त्रा3यन्तां वस्त्रिशूलक्षतकुहरभुवो लोहिताम्भःसमुद्राः ॥ ४०॥ त्रिशूलक्षतकुहरभुवो लोहिताम्भःसमुद्रा रुधिररूपजलसमुद्रा वस्त्रायन्ता- भू। उत्प्रेक्षते-मघवद्वज्रलजानिदाने अधवति पापिनि । देवद्विषि महिषे द्रागेव निर्व्याजदीर्घां निन्द्रां मरणं नीते सति मुषितरुषो निवृत्तकोपाया अत एव स्वभावं संस्मरन्त्या देव्यास्तिसृभ्यो दृग्भ्यो नेत्रेभ्यस्त्रयो रक्तताया आरू- ण्यस्य राशय इव गलिताः । क्रोधाभावाद्देव्या नेत्राणां रक्तत्वं निवृत्तं तदेव रुधिरसमुद्रत्वेन संभावितम् ॥ काली कल्पान्तकालाकुलमिव सकलं लोकमालोक्य पूर्वं पश्चाच्छिष्टे विषाणे विदितदितिसुता लोहिता मत्सरेण । पादोस्पिष्टे परासौ निपतति महिषे प्राक्खभावेन गौरी गौरी वः पातु पत्युः प्रतिनयनमिवाविष्कृतान्योन्यरूपा ॥४१॥ पत्युः शिवस्य प्रतिनयनं लोचनान्तरमिव आविष्कृतान्योन्यरूपा गौरी वः पातु । आविष्कृतमन्योन्यस्य रूपं यया । स्वस्य रूपं भर्तृलोचनस्य, भर्तृलो- चनरूपमात्मन इति भावः । किंभूता । महिषोपप्लवेन कल्पान्तकालाकुल- मिव सकलं लोकमालोक्य पूर्वं काली कृष्णा जाता । पश्चादनन्तरं विदित- दितिसुता ज्ञातदैत्या मत्सरेणामर्षेण लोहिता रक्ता जाता । क्व सति । विषाणे शृङ्गे अर्थान्महिषस्य श्लिष्टे लग्ने सति । पुनः । महिषे पादोत्पिष्टे अत एव परासौ गतप्राणे निपतति सति प्राक्स्वभावेन पूर्वप्रकृत्या गौरी अवदाता जाता । एवं त्रिरूपा देवी त्रिभिर्महादेवनयनैस्तुल्येति भावः ॥ गम्यं नाग्नेर्न चेन्दोः दिनकृतां द्वादशानामसह्यं शक्रस्याक्षणां सहस्रं सह सुरसदसा सादयन्तं प्रसह्य । १. 'मुषितभियः'. २. 'शोणितस्य'. ३. 'रक्षन्तु त्वाम्'. ४. 'प्रतिनयन इवाविष्कृतान्योन्यभावा'. ५. 'जितेन्दुम्'. ६. 'अशक्यम्'.